सामग्री पर जाएँ
सर्वकोश
औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

Aucitya Vicara Charcha of Kshemendra with Commentary

महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा

DevanagariHindipublished256 पृष्ठ

पृष्ठ 246, कुल 256 में से

संदर्भ में पढ़ें
पृष्ठ 246

१८६ औचित्यविचारचर्चा
अस्मिन्पद्ये स कामो युष्माकं प्रीतये भवतु यस्य हरभस्मीकृत-
विग्रहस्यापि सौन्दर्यं कज्जलस्येवातितरां याता पुनर्दिग्धमेवाञ्जनं यथाति-
तराम् स्पृहणीयतामायाति तथैव कामो दग्धीकृतोऽपि नितरामेव सौन्दर्य-
मासादयेदिति भावः। इत्युक्ते "प्रीतये जायताम्" इत्युचितं समुचितं,
यतो हि कामस्य प्रीत्यात्मकत्वात्प्रीतिरेवात्मा यस्य तस्य भावस्तत्त्वं
तस्मात् प्रीतिरूपत्वादिति भावः, प्रीत्यात्मनस्तस्य प्रीतिप्रदानमुचित-
मिति बोध्यम्।
इस पद्य में 'वह कामदेव तुम्हारे आनन्द के लिये हो दग्ध हो जाने पर
भी कज्जल के समान जिसकी शोभा और भी अधिक बढ़ गयी है' इस कथन
में "प्रीतये जायताम्" ऐसा जो कहा गया है वह अत्यन्त उचित है, क्योंकि काम-
देव के प्रीत्यात्मक होने के कारण उसका प्रीति प्रदान करना युक्तिसंगत ही है।
अतः यह भी आशीर्वचनोचित्य का द्योतक हुआ।
न तु यथाऽमरुकस्य—
आलोलामलकावलीं विलुलितां बिभ्रच्चलत्कुण्डलं,
किञ्चिन्मृष्टविशेषकं तनुतरैः स्वेदाम्भसां सीकरैः।
तन्वङ्ग्याः सुतरां रतान्तसमये वक्त्रं रतिव्यत्यये,
तत्त्वां पातु चिराय किं हरिहरस्कन्दादिभिर्देवैः ॥
आशीर्वचनानौचित्यं प्रदर्शयितुमाह—न तु यथाऽमरुकस्येति।
आलोलामिति। रतिव्यत्यये विपरीतरतौ आलोलां कम्पनपरां, विलुलि-
तामितस्ततो विक्षिप्तामलकावलीं चिकुरनिकरं बिभ्रद्धारयत्तथा, चलती
लोलती कुण्डले यस्य तत्, तनुतरैरतिसूक्ष्मैः स्वेदाम्भसां स्वेदजलानां सीकरैः
कणैः, सुतराम् स्वभावत एव किञ्चिन्मनागेव, मृष्टो धौतो विशेषस्तिलकं
यस्मिन्नेवंभूतं, तन्वङ्ग्याः कृशाङ्ग्याः नायिकाया इति भावः, रतान्त-
समये निधुवनसमाप्तिकाले, यद्वक्त्रमाननं तत्त्वां, चिराय बहुकालं यावत्,
पातु रक्षतु, हरिहरस्कन्दादिभिर्विष्णुशिवकार्तिकेयप्रभृतिभिरन्यैर्देवतै-
र्देवैः किम् ? न किञ्चित् प्रयोजनमिति भावः।
आशीर्वचनानौचित्य का उदाहरण दिखाने के लिये कहा गया है—न तु यथा-
ऽमरुकस्येति। आलोलामिति। विपरीतरति के समय इतस्ततो विक्षिप्त और कंपन-
शील घुंघराले बालों को धारण करता हुआ तथा डोलते हुए कुण्डलों से सुशोभित
शरीर के पसीनों की बूंदों से स्वभावत एव कुछ कुछ मिटे हुए टीके (तिलक) से