सामग्री पर जाएँ
सर्वकोश
औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

Aucitya Vicara Charcha of Kshemendra with Commentary

महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा

DevanagariHindipublished256 पृष्ठ

पृष्ठ 244, कुल 256 में से

संदर्भ में पढ़ें
पृष्ठ 244

१८४ औचित्यविचारचर्चा
पद का प्रयोग अत्यन्त कल्याणकारक होता है ।
यथाऽस्मदुपाध्यायगाङ्गकस्य---
स कोऽपि प्रेमार्द्रः प्रणयपरिपाकप्रचलितो
विलासोऽक्ष्णां देयात्सुखमनुपमं वो मृगदृशाम् ।
यदाकूतं दृष्ट्वा पिदधति सुखं तूणविवरे,
निरस्तव्यापारा भुवनजयिनः पञ्चविशिखाः ॥
आशीर्वचनौचित्यमुदाहर्तुमाह--यथाऽस्मदुपाध्यायगाङ्गकस्येति । स
कोऽपीति । प्रेमार्द्रः प्रेम्णा स्नेहेनार्द्रो विगलितप्रायः, प्रणयस्य प्रीतेः परि-
पाकेन परिणत्या, प्रचलितः, स कोप्यनिर्वचनीयः, मृगदृशां हरिणलोचना-
नामक्ष्णां, विलासो विभ्रमः, वो युष्मभ्यमनुपममुपमारहितमननु-
भूतपूर्वमित्यभिप्रायः, सुखमानन्दं देयात्, यदाकूतं यदभिप्रायं दृष्ट्वा
विलोक्यावगत्येति भावः, भुवनजयिनस्त्रिभुवनसम्मोहनस्य कामदेवस्य
पञ्चविशिखाः पञ्चसंख्यकाः सायका निरस्तव्यापारास्त्यक्तनिजकार्याः
सन्तस्तू णविवरे तूणीररूपबिले, मुखं पिदधति लज्जया मुखं गोपयन्तीति
तात्पर्यम् ।
आशीर्वचनौचित्य का उदाहरण दिखाने के लिये कहा गया है—यथाऽस्म-
दुपाध्यायेति । स कोऽपीति । जिसके अभिप्राय को जानकर त्रिभुवनमोहन काम-
देव के पांचों बाण अपना व्यापार संवृत करके लज्जा से तूणीर रूप बिल में मुख
छिपा लेते हैं, उस प्रणय की परिणति से चलायमान, पवित्र-प्रेम से आर्द्र, मृगलोच-
नाओं की आँखों का अनिर्वचनीय विलास तुम्हें अपूर्व सुख प्रदान करे ।
अत्र "स कोऽप्यसामान्यार्द्रप्रणयविश्रान्तिप्रगल्भकुरङ्गदृशां निरुपमो
नयनविलासः, वो सुखं देयात्, यदभिप्रायमालोक्य भुवनजयिनः कामस्य
पञ्चसायकाः समाप्तव्यापारास्तूणीरविवरे लज्जयेव मुखं पिदधती"-
त्युक्ते सुखं वो देयादित्याशीःपदमुचितमेव प्रयानयनविभ्रमस्य सुखार्पण-
योग्यत्वात् ।
अस्मिन्पद्ये "सामान्येनासाधारणेन प्रेम्णाऽऽर्द्राणां द्रुतानां, प्रण-
यस्य प्रीतेर्विश्रान्त्या, प्रगल्भानां प्रौढानाञ्च कुरङ्गदृशां मृगलोचनानां,
स कोऽपि, निरुपमो विलक्षणो नयनविलासो वो युष्मभ्यं सुखं देयात्,
यदभिप्रायं तात्पर्यमालोक्य दृष्ट्वा, भुवनजयिनो जगद्विजेतुः कामस्य
पञ्चसायका बाणाः, समाप्तव्यापारा व्यापारशून्याः सन्तस्तूणीरविवरे
लज्जयेवाननं पिदधती"त्युक्ते "सुखं वो देयात्" इत्याशीःपदमुचितं