औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)
Aucitya Vicara Charcha of Kshemendra with Commentary
महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा
पृष्ठ 241, कुल 256 में से
संदर्भ में पढ़ेंउत्पन्न उस लोकत्रय-संहारक अग्नि ने कामदेव को जलाकर भस्मावशेष
कर डाला ।
अत्र "पश्यतो भगवतस्त्रिनेत्रस्य स्मरशरनिपातक्षोभे वर्ण्यमाने तन्नि-
कारोवशमाय 'संहर संहर प्रभो क्रोधम्'ति यावद्वचः खे देवानां चरति
तावद्भवनेत्रोद्भवः स वह्निर्मदनं भस्मराशिशेषकमकार्षीत्" इत्युक्ते
संहारावसरे रुद्रस्य भवाभिधानमनुचितमेव ॥ ३८ ॥
अस्मिन्पद्ये "तृतीयनेत्रेणावलोकयतो भगवतस्त्रिलोचनस्य स्मरशराणां
कामबाणानां निपातेन निपटनेन, यः क्षोभस्तस्मिन्वर्ण्यमाने तन्निकारो-
पशमाय स्मरशरनिपातजन्यक्रोधरूपपरिभवविनाशाय 'प्रभो ! क्रोधं
संहर संहर' इति देवानां वचो यावदाकाशे चरति तावदेव भवनेत्रो-
त्पन्नो वह्निः कामदेवं भस्मीकृतं चकार" इत्युक्ते संहारावसरे काम-
देवस्य संहारसमये रुद्रस्य हरस्य भवाभिधानं भवेतिनामधेयमनुचितम-
युक्तमेव । हरेति नाम समुचितं स्यात् यतो हि भवति जगदस्मादिति-
व्युत्पत्त्या भवस्य निष्पादकोऽर्थः सम्भवति । विनाशकालेऽत्र तस्य नाम्नो-
ऽनौचित्यं स्पष्टमेव । हरति विनाशयति जगदितिव्युत्पत्तियोगिहरेति नाम
नितरामौचित्यमावहेत्, तत्त्वत्र न प्रतिपादितमित्यनौचित्यं नाम्न इति
बोध्यम् । अत्र केचित् भवस्य न विनाशं प्रति साक्षात्सम्बन्धस्तस्य तु
वह्निसमुत्पादन एव गतार्थत्वमित्यत्र संहारावसरेऽपि वह्निजन्मरूपो-
त्पादनप्रसङ्गेन न भवेतिनाम्नो नैरर्थक्यमित्याभाषन्ते ।
मादृशास्तु—भवेतिनामधेयं नितरामेवात्रोपयुक्तं यतो ह्यनेन जगज्जन-
कवासनाधिवर्धकस्य कामकृतशरनिपातस्याक्षम्यापराधत्वं व्यज्यते, येन
च जगत्पितुरपि नेत्रात्सहजसुलभवात्सल्यमपेक्ष्य वह्नेरेवाभूतप्रादुर्भाव
इत्यभिप्रायाय विशेषावबोधो जायते, हरेति नामकरणेन नैवं समुपपद्येते-
त्युपयुक्तमेव भवनामकरणमित्यामनन्ति ।
वस्तुतस्तु साधारणतयाऽत्र संहारस्यैवावसर इति भवेत्यभिधान-
मनौचित्यं व्यञ्जयत्येवेति सुधियो विभावयन्तु ॥ ३८ ॥
इस पद्य में "तीसरे नेत्र से देखते हुए भगवान् त्रिलोचन के स्मरशरनिपात-
जन्य क्षोभ के वर्णन-क्रम में उसकी शान्ति के लिये 'हे ! प्रभो क्रोध शान्त कीजिये'
ऐसी देवताओं की वाणी जबतक आकाश में ही घूम रही थी, महादेव सुन भी