औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)
Aucitya Vicara Charcha of Kshemendra with Commentary
महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा
पृष्ठ 212, कुल 256 में से
संदर्भ में पढ़ें१५२ औचित्यविचारचर्चा
न तु यथा भट्टेन्दुराजस्य--
आश्चर्यं वडवानलः स भगवानाश्चर्यमम्भोनिधि-
र्यत्कर्मातिशयं विचिन्त्य मनसः कम्पः समुत्पद्यते ।
एकस्याशयघस्मरस्य पिबतस्तृप्तिर्न जाता जलै-
रन्यस्यापि महात्मनो न वपुषि स्वल्पोऽपि जातः श्रमः ॥
सत्त्वानौचित्यमुदाहर्तुमाह--न तु यथा भट्टेन्दुराजस्येति । आश्चर्य-
मिति । वडवानलो वडवाग्निराश्चर्यं प्रथमत आश्चर्यविषय इति भावः,
(द्वितीयतः) स प्रसिद्धो भगवान्महाशयो जलनिधिः समुद्रः, आश्चर्य-
माश्चर्यविषयः, यत्कर्म ययोः कार्यं, विचिन्त्य स्मृत्वापीत्यर्थः मनसश्चित्त
स्यातिशयं यथा स्यात्तथा, कम्पः कम्पनं, समुत्पद्यते सञ्जायते । किं
तदाश्चर्यकारणमित्युच्यते--एकस्येति । आशयघस्मरस्याश्रयविनाशकस्य
पिबतः शोषयतः एकस्य वडवाग्नेरित्यर्थः, जलैरम्भोभिस्तृप्तिः सन्तोषः,
न, जाताऽभूत् । अद्यावधि तत्कर्मप्रवृत्त एवायमवलोक्यत इत्यतृप्तेरेव
माहात्म्यमिति भावः, अन्यस्याप्यपरस्यापि समुद्रस्यापीत्यर्थः महात्मनः
सज्जनस्य, वपुषि शरीरे, स्वल्पोऽपि मनागति, श्रम आयासः न जातो
नाभवत् । वडवाग्नेः शोषणेनापि न समुद्रशरीरे मनागप्यायासो दृग्गोचरी
भवतीति तदुभयमाश्चर्यकारणमिति भावः ।
सत्त्वानौचित्य का उदाहरण दिखाने के लिये कहा गया है- न तु यथेति ।
आश्चर्यमिति । बड़वानल और समुद्र दोनों आश्चर्य के विषय हैं, इनके क्रिया-
कलापों के स्मरणमात्र से हृदय में एक कंपन उत्पन्न हो जाता है, क्योंकि एक तो
(बड़वानल) शोषण के द्वारा अधिक से अधिक जल पी लेने पर भी तृप्त नहीं
हुआ है (आज तक उस व्यवसाय में लगा ही हुआ है) और दूसरा (समुद्र)
इतना ताप सहकर भी अपने शरोर पर कुछ भी क्लेश का अनुभव नहीं करता ।
अत्र वडवानलसमुद्रयोः सत्त्वमहत्त्वे वक्ष्यमाणे नातिविपुलाशयत्वा-
देकस्य पिबतः, पयोभिस्तृप्तिर्न जाता, द्वितीयस्य तदुपजीव्यमानस्य न
मनागपि खेदः, तदेतदुभयमाश्चर्यमित्युक्ते निःसन्तोषतया सततया च
कस्य न वडवाग्नेर्लज्जा न च जलनिधेराश्रितैकार्थिपूरणसामर्थ्यमित्यसत्त्वे
सत्त्वस्तुतिरनौचित्यमावहति ॥ ३१ ॥
अत्रोक्तपद्ये, वडवानलसमुद्रयोः सत्त्वमाहात्म्येऽभिधास्यमाने, नाति-
विपुलाशयत्वादाशयस्थ जलाशयस्य समुद्रस्येति यावत्, वडवाग्नितृप्ति-