सामग्री पर जाएँ
सर्वकोश
औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

Aucitya Vicara Charcha of Kshemendra with Commentary

महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा

DevanagariHindipublished256 पृष्ठ

पृष्ठ 209, कुल 256 में से

संदर्भ में पढ़ें
पृष्ठ 209

संस्कृत-हिन्दीव्याख्याद्वयोपेता १४९

बुभुक्षितैर्भो जनेच्छावद्भिर्व्याकरणं पाणिनीयादिकं शब्दशास्त्रं, न भुज्यते
खाद्यते, व्याकरणाध्ययनमुदराग्निप्रशमने न समर्थमिति भावः, (एवं)
पिपासितैस्तृषावद्भिः, काव्यरसः शृङ्गारादिलक्षणः, न, पीयते, काव्य-
रसोऽपि जलतृष्णाशान्तये न क्षम इति भावः, (यथा) विद्यया विद्या-
ध्ययनेनेति भावः, केनचित्केनापि, कुलं वंशः, उद्धृतं, विद्याध्ययनमात्रेण
वंशोद्धारो न केनापि संपादित इति भावः, (एवं प्रकारेण) कला
वैदुष्यकवित्वादिका, निष्फला निष्प्रयोजना, अतः हिरण्यं सुवर्णमेवार्जय,
क्षुत्पिपासादिनिवारणोपायभूतधनोपार्जनमेव विधेयं न वैदुष्योपार्जनमिति
भावः।
तत्त्वानौचित्य का उदाहरण दिखाने के लिये कहा गया है—न तु यथा माघ-
स्येति । बुभुक्षितैरिति । कहीं भूखे व्याकरण खाते देखे गये हैं ? अथवा प्यासों की
प्यास शृंगारादि काव्यरसों से बुझ सकी है ? या कोई विद्याध्ययनमात्र से कुल
की मर्यादा बढ़ा सका है ? नहीं, कभी नहीं। कलायें तो व्यर्थ की चीजें हैं, इन्हें
छोड़ो, पैसे कमाने की चिन्ता करो । उन्हीं से सभी आवश्यकतायें पूरी होती हैं ।
अत्रायथार्थार्थितापरत्वेन धनमेवार्जय, क्षुधितैर्व्याकरणं न भुज्यते,
न च काव्यरसः पिपासितैः पीयते, न च विद्यया कुलं केनचिदुद्धृतमित्युक्ते
सर्वमेतद्दारिद्र्यदैन्यविद्रुतधैर्यकातरतया तत्त्वविरहितं विपरीतमपन्यस्त-
मनौचित्यसंयुक्तमेव । विद्यानामेव सर्वसम्पत्प्रसविनीनां कुलोद्धारक्षमत्वं
नान्यस्य ॥ ३० ॥
अत्रास्मिन्पद्येऽयथार्थाऽवास्तविकी याऽर्थिता धनलोलुपता,
यत्परत्वेन तन्मयतया, “सम्पत्तिमेवोत्पादय, क्षुधाविह्वलैः शब्दशास्त्रं न
खाद्यते, नापि तृषाकुलितचेतोभिः काव्यरसः पीयते, न च शास्त्राध्ययनेन
केनापि वंश उज्ज्वलित” इत्युक्ते, एतत्सर्वं शास्त्राध्ययनादिनिषेधपूर्वक-
धनोपार्जनपरं वाक्यं, दारिद्र्यदैन्याभ्यां विद्रुतमुपप्लुतं यद्धैर्यं तेन
कातरतयाऽधीरतया, तत्त्वविरहितं सत्यांशहीनमत एव विपरीतं विरुद्ध-
मुपन्यस्तं प्रतिपादितम्—(अत एव) अनौचित्यसंयुक्तमेवास्तीति भावः ।
यतो हि, सर्वसम्पत्प्रसविनीनां सकलविभूतिजनयितॄणां, विद्यानां शास्त्राणा-
मेव, कुलोद्धारक्षमत्वं वंशमर्यादासंवर्धनशीलत्वमस्ति नान्यस्य धनादेरिति
सारांशः ॥ ३० ॥
इस पद्य में "अनुचित धनलोलुपता के कारण अर्थ का ही उपार्जन करो,