सामग्री पर जाएँ
सर्वकोश
औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

Aucitya Vicara Charcha of Kshemendra with Commentary

महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा

DevanagariHindipublished256 पृष्ठ

पृष्ठ 204, कुल 256 में से

संदर्भ में पढ़ें
पृष्ठ 204

काव्यार्थं समुचितव्रतगौरवात्साधुवादयोग्यः सन्तोषपूर्णं जनमनः
करोति । भक्तिविच्छित्तिः ।
कुलोचित्यं प्रदर्श्य सम्प्रति सप्तदशतं व्रतौचित्यं विवेचयितुमाह—
काव्यार्थ इति —सद्व्रतौचित्यस्य गौरवाद् गाम्भीर्यात्, साधुवादार्हः साधु-
वादप्रदानयोग्यः काव्यार्थो जनमानसं विज्ञजनचित्तं, भक्त्या विच्छित्ति-
विशेषोपलब्ध्या, सन्तोषनिर्भरं तुष्टिपूर्णं करोति विधत्ते ।
मूलार्थमेव विशदयति —काव्यार्थ इति । काव्यार्थः समुचितगौरवाद-
नुरूपव्रताचरणमहिम्ना, साधुवादयोग्यः प्रशंसनीयः सन्, जनमनः
सहृदयहृदयं, सन्तोषपूर्णं सन्तुष्टिपरिपूणं, करोति विदधाति । भक्ति-
पदार्थमाह —भक्तिविच्छित्तिर्रानन्द इति भावः ।
कुलोचित्य का प्रदर्शन करके अभी सत्रहवें व्रतौचित्य का विचार किया जा
रहा है—काव्यार्थ इति । सद्व्रताचरण की गंभीरता से प्रशंसनीय काव्यार्थ
विज्ञ जनों के चित्त को आनन्द से आप्लावित कर देता है ।
कारिका के अर्थ को ही विशद किया जा रहा है—अनुरूप व्रताचरण के
वर्णन से काव्यार्थ प्रशंसनीय होता हुआ सहृदयों के मन को अपूर्व आह्लाद प्रदान
करता है । भक्ति पद का अर्थ विच्छित्ति = आह्लाद-विशेष है ।
यथा मम मुक्तावलीकाव्ये—
अत्र वल्कलजुषः पलाशिनः पुष्परेणुभरभस्मभूषिताः ।
लोलभृङ्गवलयाक्षमालिकास्तापसा इव विभान्ति पादपाः ॥
व्रतौचित्यमुदाहर्तुमाह—यथा मम मुक्तावलीति । अत्रेति । अत्रास्मि-
न्वनेकदेशे, वल्कलजुषो वल्कलधारिणः पलाशिनः पत्रवन्तः, पलाशदण्ड-
धारिणश्च पुष्पाणां कुसुमानां, रेणूनां परागाणां, भरोऽतिशय एव भस्म
भसितं तेन भूषिता लिप्तसर्वाङ्गा, लोलानां चञ्चलानां, भृङ्गाणां भ्रमराणां,
वलयं समूह एवाक्षमालिका जपमाला येषामेवंभूताश्च पादपास्तापसा-
स्तपस्विन इव विभान्ति शोभन्ते । यथा तपस्विनो वल्कलजुषः पलाश-
दण्डधारिणो भस्मच्छुरितसर्वाङ्गा जपमालासनाथितकराश्च भवन्ति,
तथैवेमे पादपा अपि त्वग्युक्ताः पत्रवन्तः पुष्परेणुविच्छुरिता भृङ्गसंघ-
सुशोभिताश्चावलोक्यन्त इति भावः । अत्र पलं मांसमश्नन्तीति व्युत्पत्ति
योगान्मांसभक्षणरूपव्रतविद्धार्थप्रत्यायकस्य पलाशपदस्य प्रयोगो नोचित
इति मादृशाः ।