सामग्री पर जाएँ
सर्वकोश
औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

Aucitya Vicara Charcha of Kshemendra with Commentary

महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा

DevanagariHindipublished256 पृष्ठ

पृष्ठ 197, कुल 256 में से

संदर्भ में पढ़ें
पृष्ठ 197

संस्कृत-हिन्दीव्याख्याद्वयोपेता १३७
देशविषयौचित्येन हृदयसंवादिना काव्यार्थः सतां व्यवहार इव परि-
चयसूचकः शोभते ।
कालौचित्यं विचार्य सम्प्रति क्रमोपगतं पञ्चदशतं देशौचित्यं विवेच-
यितुमाह--देशौचित्येनेति । संवादेन हृदयसंवादिना, देशौचित्येन स्थान-
विशेषानुरूपवर्णनेनेत्यर्थः । काव्यार्थः सज्जनानां परिचयाशंसी परिचय-
सूचकः व्यवहार इव परमुत्कृष्टं यथा स्यात्तथा शोभते ।
कारिकार्थमेव विवृणोति--देशेति । हृदयसंवादिना हार्दिकभावानु-
रूपेण, देशविषयौचित्येन स्थानविशेषौचित्येन, काव्यार्थः, परिचयसूचकः
पूर्वपरिचयान्वाख्यापकः, सतां सत्पुरुषाणां व्यवहार इव शोभते ।
कालौचित्य का विचार समाप्त कर अब क्रमोपगत पंद्रहवें देशौचित्य की
विवेचना करने के लिये कहा गया है--देशौचित्येनेति । हार्दिक भावना के अनु-
रूप देशौचित्य की महिमा से काव्यार्थ सज्जनों के परिचय-व्यवहार की तरह
अत्यन्त सुशोभित होता है ।
इसी अर्थ को विस्तृत करने के लिये कहा गया है--देशविषयेति । हृदय-
संवादी देशविशेष के औचित्य से काव्यार्थ पूर्वपरिचयसूचक सज्जनों के व्यवहार
के समान सुशोभित होता है ।
यथा भट्टभवभूतेः--
पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां
विपर्यासं यातो घनविरलभावः क्षितिरुहाम् ।
बहोर्दृष्टं कालादपरमिव मन्ये वनमिदं
निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति ॥
देशौचित्यमुदाहर्तुमाह- यथा भट्टभवभूतेरिति । शम्बूकवधप्रसङ्गेन
पुनर्द्ण्डकारण्यं प्रविष्टवतो रामचन्द्रस्योक्तिरियम्-- पुरा यत्रेति । पुरा
वनवासकाले, यत्र यस्मिन्स्थाने सरितां नदीनां, स्रोतः प्रवाहः आसीदिति
शेषः, अधुना सम्प्रति, तत्र स्थाने, पुलिनं जलादुत्थितं बालुकामयं तटं,
सम्पन्नमिति शेषः, ( तथा ) क्षितिरुहां वृक्षाणां घनविरलभावः अधिक-
ह्रासादिविपर्यासं वैपरीत्यं, यातः प्राप्तः, पूर्वं यत्र वृक्षा घना आसन् तत्रे-
दानीं विरलाः संयाताः, यत्र च विरला आसन् तत्राद्य घना अभूवन्निति
भावः, ( अत एव ) बहोः कालात्प्रचुरसमयात् परिमिति शेषः, दृष्टमवलो-
कितमिदमेतद्वनमरण्यमपरं तद्भिन्नमिव मन्येऽनुभवामि । तत्प्रत्यभिज्ञाने