सामग्री पर जाएँ
सर्वकोश
औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

Aucitya Vicara Charcha of Kshemendra with Commentary

महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा

DevanagariHindipublished256 पृष्ठ

पृष्ठ 195, कुल 256 में से

संदर्भ में पढ़ें
पृष्ठ 195

संस्कृत-हिन्दोव्याख्याद्वयोपेता १३५
अत्र पद्ये, लुब्धकस्य व्याधस्य, धनुःसायकशिक्षागतिक्रौर्यगीतानि
चापबाणाभ्यासगतिक्रूरतागानानि, तथा ( सन्ति ) यथा वनं मृगरहितं
भविष्यतीत्येवंविधोक्तौ भविष्यत्कालो भविष्यतीति भविष्यत्कालिकक्रिया-
पदप्रयोगः, प्रकृतार्थपरिपोषेण वर्णनीयाभीष्टार्थपोषणेन, हृदयसंवादौचित्यं
हृदयसम्मतौचित्यमादधाति धारयति ।
इस पद्य में "व्याध के धनुष, बाण, अभ्यास, गति, क्रूरता और गान ऐसे
हैं जिनसे जंगल मृगरहित हो जायगा" इस उक्ति में भविष्यत् काल का जो प्रयोग
किया है उससे वर्णनीय अर्थ को पूर्णतः पुष्टि होने के कारण हृदयानुमोदित
औचित्य का आभास अनायास हो जाता है ।
न तु यथा वराहमिहिरस्य -
क्षीणश्चन्द्रो विशति तरणेर्मण्डलं मासि मासि
लब्ध्वा काञ्चित्पुनरपि कलां दूरदूरानुवर्ती ।
सम्पूर्णश्चेत्कथमपि तदा स्पर्द्धयोदेति भानो-
र्नो दौर्जन्याद्विरमति जडो नापि दैन्याद्व्यरंसीत् ॥
कालकृतानौचित्यं प्रदर्शयितुमाह - न तु यथा वरामिहिरस्येति । क्षीण
इति । क्षीणो दुर्बलः कलाभिर्विहीन इत्यर्थः, चन्द्र इन्दुर्मासि मासि प्रति-
मासममावास्यायां सूर्यचन्द्रमसोरेककक्षास्थितिमत्त्वं प्रसिद्धमेवेति भावः,
तरणेः सूर्यस्य, मण्डलं विशति प्रविशति, ( ततः ) काञ्चित्कियती, कलां,
लब्ध्वा प्राप्य, पुनरपि भूयोऽपि, दूरदूरानुवर्ती सुदूरगामी भवतीति शेषः,
कथमपि महता प्रयत्नेनापि, परिपूर्णः पूर्णमण्डलश्चेत्तदा भानोः सूर्यस्य,
स्पर्द्धया साम्यवाञ्छयोदेत्युदयं गच्छति । पूर्णिमायां चन्द्रः सूर्यात्सम-
कक्षायां तिष्ठति तस्याश्च कक्षायाः समानान्तरत्वेन तयोः (सूर्यचन्द्रयोः)
प्रतिस्पर्द्धैव प्रतिभातीति तात्पर्यम् । तत्र हेतुमाह - नो दौर्जन्यादिति ।
जडः परासादितशक्तिर्दौर्जन्यात्स्वदुर्जनतायाः, नो नहि, विरमति विराम-
मेति, नापि न च, दैन्याद्दारिद्र्याद्याचनातः इत्यर्थः, व्यरंसीत् विश्रान्तो-
ऽभूत् ।
कालकृत अनौचित्य का उदाहरण दिखाया जा रहा है - न तु यथेति । क्षीण
इति - चन्द्रमा कलाओं से विहीन होकर प्रतिमास ( अमावस्या को ) सूर्यमण्डल
में प्रवेश करता है और वहाँ से कुछ कलाओं को लेकर दूर से दूर निकलता
चला जाता है, यदि किसी तरह ( पूर्णिमा को ) पूर्ण भी होता है तो सूर्य की