सामग्री पर जाएँ
सर्वकोश
औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

Aucitya Vicara Charcha of Kshemendra with Commentary

महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा

DevanagariHindipublished256 पृष्ठ

पृष्ठ 181, कुल 256 में से

संदर्भ में पढ़ें
पृष्ठ 181

संस्कृत-हिन्दीव्याख्योपेता १२१
युक्तानि, रत्नस्य वलभी गोपानसी येष्वेवंभूतानि हर्म्याणि प्रासादतलानि,
रम्या मनोरमाः, स्त्रियो रमण्यश्च, सर्वं पूर्वोक्तं सकलं, चारुतरं नितरां
सुन्दरं, कस्य न दयितं कस्य नाभिमतम् ? अपि तु सर्वस्याप्यभिमतमेव ।
तु किन्तु तत्सर्वं यस्मिन् ( जीवने ) भुज्यते भोगविषयीक्रियते तज्जीवितं
जीवनं मृन्निर्मितं मृत्तिकया रचितमामभाजनमपरिपक्वपात्रमिव, क्षिप्रक्षयं
शीघ्रविनाशशीलमचिरस्थायीति भावः, अस्तीति शेषः ।
विशेषणौचित्य का उदाहरण दिखाने के लिए कहा गया है—यथा ममेति ।
चैत्र इति । वसन्त में गदराये यौवन की बगिया, सुगन्ध से मदमत्त कर देनेवाली
कमलिनी, चान्दनी की चादर लपेटे रत्नों की छज्जा वाली बड़ी-बड़ी अट्टालि-
कायें, रमणीय रमणियाँ, स्वभावसुन्दर, ये सब किसे अभिमत नहीं ? परन्तु जिस
( जीवन ) में इनका उपभोग किया जाता है वह जीवन ही मिट्टी से बने कच्चे
बर्तन के समान अचिरस्थायी है ।
अत्र युधिष्ठिरस्यासादितमहाविभूतेर्मयनिर्मितमणिमयसभाभि-
मानिनो विभवप्रभावे वर्ण्यमाने सकलभावाभावस्वरूपभाववादोपदेशिनो
महामुनेराशयविचारावसरे यदुक्तं कुसुमसमयसमुचितयौवनान्युपवनानि
मकरन्दामोदसुन्दरारविन्दिनी ज्योत्स्नापटप्रावृतानि रत्नवलभीहर्म्याणि
रमणीया रमण्यश्चेति सर्वमेतच्चारुतरं सर्वस्याभिमतम् किन्तु
यस्मिन्भुज्यते तज्जीवितमाममृत्पात्रनिःसारं क्षिप्रक्षयमिति तद्विशेष्य-
पदोत्कर्षकारिविशेषणपदोदितसौन्दर्येण पर्यन्तनिःसारतानिर्वेंद संवादि
स्फुरदौचित्यमातनोति ।
अत्रास्मिन् पद्ये, आसादितमहाविभूतेः प्राप्तमहैश्वर्यस्य, मयदानवर-
चितमणिमयसभाया अभिमानिनो गर्विणो युधिष्ठिरस्य, विभवप्रभावे
ऐश्वर्यमाहात्म्ये वर्ण्यमाने, सकलानां निःशेषाणां भावानां भवन्त्युत्पद्यन्ते
इति भावास्तेषामर्थात्सम्पूर्णभौतिकवस्तूनामभावस्वरूपभाववादस्याभाव-
स्वरूपतया वादस्य दृश्यमानसकलवस्त्वनस्तित्वसिद्धान्तस्येति यावत्,
उपदेशिनः प्रतिपादनशीलस्य, महामुनेर्भगवतो बुद्धस्याशयविचारावसरे
तात्पर्यपर्यालोचनकाले “पुष्पसमयसमृद्धतारुण्यान्युपवनानि, मकरन्द-
माधुरीपूरिता कमलिनी, चन्द्रिकापटावृतानि रत्नगोपानसीपरिलसत्प्रासा-
दतलानि, रमणीया रमण्यश्चेति सर्वमेतच्चारुतरं, सर्वस्य प्राणिनोऽभीष्ट-
तमं किन्तु यस्मिन् ( जीवने ) भुज्यते, तज्जीवितमपरिपक्वमृद्भाजनमिव