औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)
Aucitya Vicara Charcha of Kshemendra with Commentary
महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा
DevanagariHindipublished256 पृष्ठ
पृष्ठ 178, कुल 256 में से
संदर्भ में पढ़ेंपृष्ठ 178
११८ औचित्यविचारचर्चा
अत्र शुकसारणाभ्यां रघुपतेरग्रे दशग्रीवपराक्रमेऽभिधीयमाने यदुक्तं
पौलस्त्यः शेषशायिनं हरिमेकवारोद्योगशमवशेन संसक्तालस्यांनिद्रमनेक-
त्रैलोक्याक्रमणैर्वराहविजयिनां सुभटानां जयैरनेकरत्नप्राप्तिभिः समर-
समुद्रमध्ये बहुवारविहितैः श्रियः स्वयंवरशतैर्बलिनां च लोकपालानां
बन्धनैः प्रख्याततः सदोत्थितः सोत्साहः सततं हसतीति बहुवचनैरेव हरि-
वैलक्षण्यलक्षणमुपचितमौचित्यमुदञ्चितम् ।
अत्रोक्तपद्ये शुकसारणाभ्यां रामचन्द्रस्याग्रे दशाननप्रतापे कथ्यमाने-
"रावणः एकवारोद्योगश्रमवशेनाङ्गीकृतगाढस्वापं शेषशायिनं हरिमनेक-
वारकृतत्रैलोक्याक्रमणैर्दुर्दन्तशूकरनिपातनसमर्थानां सुभटानां जयैरनेक-
रत्नावाप्तिभिर्युद्धा