सामग्री पर जाएँ
सर्वकोश
औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

Aucitya Vicara Charcha of Kshemendra with Commentary

महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा

DevanagariHindipublished256 पृष्ठ

पृष्ठ 171, कुल 256 में से

संदर्भ में पढ़ें
पृष्ठ 171

संस्कृत-हिन्दोव्याख्याद्वयोपेता १११
में रहा, जहाँ आपका प्रताप कामिनियों के कंपनशील स्तनतट पर हार को
उलट-पलट रहा है । अर्थात् आपका प्रभाव लोगों के हृदय में एक आतंक-सा
मचाये हुए है ।
अत्र त्वद्भृत्येन मया तत्र तस्मिन्देशे स्थितं यत्र भवत्प्रतापः कम्प-
तरलस्तनतटे हरिणदृशां हारान्प्रवर्तयतीति यदुक्तं तेन शौर्यशृङ्गारगुणो-
त्कर्षस्तुतौ सर्वतो दिग्गमनाविच्छिन्नप्रसरः प्रतापः परिमित्यं प्राप्तः ।
एकत्र परिच्छिन्ने देशे मया तत्र स्थितं यत्र त्वत्प्रतापस्तरुणीस्तनतटेषु हार-
तरलनं करोत्यन्यदेशे विलक्षणमुपलक्षणम् । सर्वगतश्चेत्प्रतापस्तत्सर्वत्रैव
मया स्थितमिति वक्तव्ये तत्रेत्येकदेशाभिधायि पदं नोपपद्यते, दस्युमात्र-
स्याप्येकदेशे जृम्भमाणप्रतापत्वात् । तदत्राधिकरणपदगतमनौचित्यमुप-
लभ्यते । तत्र तत्र मया स्थितं यत्र यत्र भवत्प्रताप इत्येव स्तुत्युचितं
युक्तयुक्तं स्यात् ॥ २० ॥
अत्र पद्ये, तवानुजीविना मया, तत्र तस्मिन्नेव देशे, केवलं स्थितं यत्र
त्वत्प्रतापः मृगलोचनानां कम्पनान्वितकुचतटे हारान्प्रवर्तयतीत्येवंभूतं
यत्प्रतिपादितं, तेन शौर्यशृङ्गारयोर्गुणोत्कर्षस्य स्तुतौ प्रशंसायामभीष्टायां
सत्यां, सर्वतो दिग्गमनाविच्छिन्नप्रसरः सर्वदिग्व्यापित्वेऽप्रतिहतावसरः
प्रतापः परिमित्यं प्राप्तः स्वल्पतामुपगतम् । ननु एकत्र परिच्छिन्ने देशे
मया तत्र स्थितं यत्र त्वत्प्रतापस्तरुणीस्तनतटेषु-हारतरलनं करोती-
त्युक्तिर्देशान्तरस्याप्युपलक्षणविधया बोधिकेति चेत् ? हन्त ! विलक्षणमिद-
मुपलक्षणमदृष्टश्रुतपूर्वम् । नैवंविधोपलक्ष्योपलक्षणभावो युक्त इत्याशयः ।
चेद्यदि, प्रतापः सर्वगतः सर्वव्यापी, तत्तदा सर्वत्रैव सर्वेष्वेव देशेषु मया
स्थितमिति वक्तव्ये तत्रेत्येकदेशाभिधायिपदं तत्रेत्यस्य स्वभावतो देश-
विशेषबोधकतया पद्ये तत्प्रयोगो नोपपद्यते न संघटते, यत एकदेशे प्रता-
पस्य वर्तमानत्वेऽपि न राज्ञो वैशिष्ट्यस्योपपत्तिर्दस्युमात्रस्यापि केवलस्य
लुण्ठकस्याप्येकदेशे जृम्भमाणप्रतापत्वात्प्रतापबाहुल्यदर्शनादिति भावः ।
तत्तस्माद्धेतोरत्र पद्येऽधिकरणपदगतमधिकरणबोधकतत्रेतिपदनिष्ठमनौ-
चित्यमुपलभ्यते । तत्र तत्र मया स्थितं यत्र यत्र भवत्प्रताप इत्येवैतद्रूपे-
णैव स्तुत्युचितं प्रशंसानुकूलमुक्तं कथितं युक्तमनुरूपं स्यात् । तदन्यथा
प्रतिपादनेनात्राधिकरणपदगतानौचित्यं स्यादेवेति भावः ॥२०॥
इस पद्य में आपका सेवक ( मैं ) उस देश में रहा है जहां आपका प्रताप