औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)
Aucitya Vicara Charcha of Kshemendra with Commentary
महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा
पृष्ठ 163, कुल 256 में से
संदर्भ में पढ़ेंसंस्कृत-हिन्दीव्याख्याद्वयोपेता १०३
सम्प्रदानौचित्यमुदाहर्तुमाह—यथा भट्टेति । दिङ्मातङ्गेति । दिङ्मा-
तङ्गानां दिग्गजानां या घटा संघस्तया विभक्ता विभज्य स्थापिताश्चत्वार
आघाटा अवधिप्रदेशा यस्याः सा, दिग्गजचतुरस्रेति भावः, मही पृथ्वी,
साध्यते स्वायत्तीक्रियते, सिद्धापि स्वायत्ती कृतापि सा विप्राय कस्मै अनुप-
कारिणे ब्राह्मणाय कश्यपायेति भावः, प्रतिपाद्यते प्रदीयते--इत्यनेन पूर्व-
वाक्यार्थः परामृश्यते । वदन्त एव कथयन्त एव, कथनसमकालमेव न तु
कथनोत्तरमिति भावः, वयं सांसारिका लोका रोमाञ्चिताः सञ्जातरोमाञ्चाः
स्म इति शेषः, पश्यतावलोकयत, रोमोद्गममिति भाव । एतेन रोमाञ्चस्य
दर्शनविषयत्वप्रतिपादनेन सत्यता सूच्यते, परशुरामकर्तृकानुपकारि-
ब्राह्मणोद्देश्यककष्टलब्धसमग्रमहीदानरूपपरमौदार्यकृतविस्मयमयचमत्काररु-
चिरौचित्यास्वादप्रयुक्तरोमाञ्चोद्गमशालिनो वयं भवाम इति भावः । अपरं
किम् ? अतः परं तन्महत्त्वं किं वर्णनीयमिति तात्पर्यम् । तस्मै विलक्षण-
त्यागजुषे, रामाय भार्गवाय ( परशुरामाय ) नमो नमस्कृतिरस्त्विति
भावः । यस्मात् भार्गवाद्विदं कथाद्भुतमेतद्विलक्षणदानरूपं कथाश्चर्यमा-
विर्भूदुत्पन्नं, यत्रैव यस्मिन्नेव चास्तं गतं विलयमुपगतम् ।
सम्प्रदानौचित्य का उदाहरण दिखाने के लिए कहा गया है--यथा भट्टेति ।
दिङ्मातङ्गेति--मनुष्यों के लिए सप्तद्वीपा वसुमती की प्राप्ति बहुत बड़ी अभि-
लाषा का विषय है, परन्तु भगवान् भार्गव ने उसे भी सिद्ध कर लिया । इतना ही
नहीं उस (ससागरा पृथ्वी) को तुच्छ वस्तु के समान केवल एक विप्र (अनुपकारी
ब्राह्मण) को दान भी कर दिया, देखो यह बोलते हुए भी हम ( साधारण
मनुष्य ) रोमाञ्चित हो रहे हैं, इससे अधिक आश्चर्यजनक महिमा किसी की क्या
हो सकती है ? उस अपूर्वत्यागी भगवान् भार्गव को नमस्कार है। ऐसी लोकोत्तर-
दानशीलता की कथा जिससे उत्पन्न होकर फिर जिसमें ही विलीन हो गयी ।
अत्र दिग्गजचतुरस्रा भूः साध्यते, सा च सिद्धा हेलयैवान्नमुष्टिरिवै-
कस्मै विप्रमात्राय प्रतिपाद्यते इति निरतिशयोदाश्चर्यचमत्काररुचिरौ-
चित्यचर्वणया वयं रोमाञ्चिताः पश्यत रोमाञ्चस्य प्रत्यक्षपरिदृश्य-
मानत्वात्, किमपरमपूर्वत्यागिने भार्गवाय तस्मै नम इति विप्रायेति
सम्प्रदानपदगत एवोत्कर्षविशेषः प्रकाशते ।
अत्र पद्ये, “दिग्गजचतुरस्रा सप्तद्वीपा [ससागरा च मही साध्यते,
सिद्धा च सा समग्रा मही लीलयैव मुष्टिपरिमितमन्नमिवैकस्मै न तु बहुभ्यो