सामग्री पर जाएँ
सर्वकोश
औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

Aucitya Vicara Charcha of Kshemendra with Commentary

महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा

DevanagariHindipublished256 पृष्ठ

पृष्ठ 160, कुल 256 में से

संदर्भ में पढ़ें
पृष्ठ 160

१०० औचित्यविचारचर्चा
करणौचित्यं यथा गौडकुम्भकारस्य—
लाङ्गूलेन गभस्तिमान्वलयितः प्रोतः शशी मौलिना,
व्याधूता जलदाः सटाभिरुडवो दंष्ट्राभिरुत्तम्भिताः ।
प्रोत्तीर्णो जलधिर्दृशैव हरिणा स्वैराट्टहासोर्मिभि-
र्लङ्केशस्य च लङ्घितो दिशि दिशि प्राज्यः प्रतापानलः ॥
कर्मपदौचित्यानौचित्ये प्रदर्श्य सम्प्रति करणपदौचित्यमुदाहर्तुमाह—
यथा गौडेति । लाङ्गूलेनेति । रामकार्यार्थं प्रस्थितस्य हनुमतो वर्णन-
मिदम् । हरिणा हनुमता, लाङ्गूलेन पुच्छेन, गभस्तिमान्सूर्यो वलयितो
वेष्टितः, मौलिना मस्तकप्रान्तेन शशी चन्द्रः प्रोतो व्याप्तः, सटाभिः
स्कन्धस्थरोमसङ्घैर्जलदा मेघा व्याधूता इतस्ततो विक्षिप्ताः निर्जिता इति
भावः, दंष्ट्राभिः दन्तैरुडवस्तारा उत्तम्भिता आयासिताः, दृशैव दृष्ट्यैव,
जलधिः समुद्रः प्रोत्तीर्णो लङ्घितस्तथा स्वैरस्य स्वेच्छया कृतस्याप्रतिह-
तस्येति भावः, अट्टहासस्याट्टाट्टहासस्योर्मिभिस्तरङ्गैः दिशि दिशि दिक्षु,
प्राज्यः प्रचुरो लङ्केशस्य रावणस्य, प्रतापानलः प्रभाववह्निर्लङ्घितः शमितः ।
कर्म पद का औचित्यानौचित्य दिखाकर अभी करणपदौचित्य का उदाहरण
दिखाने के लिये कहा गया है—यथा गौडेति । लाङ्गूलेनेति । हनुमान् के वर्णन-
प्रसंग में यह श्लोक कहा गया है । भगवान् राम के कार्य से महावीर हनुमान्
आकाशमार्ग से समुद्र-लंघन कर रहे हैं, इनके पूँछ की चमक से सूर्य, मस्तक की
कान्ति से चन्द्रमा, सटा ( पीठ पर के बाल ) की भयंकरता से मेघ, दाँतों की
द्युति से तारे अप्रतिभ हो रहे हैं, मालूम होता है जैसे दृष्टि से ही समुद्र फाँद
गये हों । इतना ही नहीं अपने अप्रतिहत अट्टाट्टहास के तरंग से दिशाओं में व्याप्त
रावण के प्रतापानल को क्षणमात्र में शान्त कर दिया हो ।
अत्र हरिणा हनुमता जलनिधितरणे तरणिलाङ्गूलेन वलयितः,
किरीटप्रान्तेन शशी प्रोतः, सटाभिर्मेघा व्याधूतास्तारा दंष्ट्राभिरायासि-
तास्तीर्णोऽब्धिर्दृष्ट्यैवाट्टहासतरङ्गैर्लङ्केशस्य विस्तीर्णः प्रतापाग्निः शमित
इति बहुभिः करणपदैरुत्साहाधिवासितैर्विस्मयशिखरारोहणसोपा-
नैरिव रघुपतिप्रभावारम्भविजयध्वजायमानस्य पवनसूनोरौचित्यातिशयः
प्रकाशितः ।
अत्र पूर्वपद्ये हनुमता जलनिधितरणे लाङ्गूलेन सूर्यो वेष्टितः, किरीट-
प्रान्तेन चन्द्रः प्रोतः, स्कन्धस्थरोमराजिभिर्मेघा व्याधूताः, दंष्ट्राभिस्तारा