औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)
Aucitya Vicara Charcha of Kshemendra with Commentary
महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा
पृष्ठ 150, कुल 256 में से
संदर्भ में पढ़ें९० औचित्यविचारचर्चा
( अच्छाई ) तभी स्पृहणीय होती है जब उनके कर्तव्य सर्वदा औचित्य से अनु-
प्राणित होते रहें, उसी तरह काव्य के भी माधुर्यादि गुण, अच्छे-अच्छे छन्द
और व्याकरणानुसार शाब्दिक शुद्धि आदि तभी सुशोभित होते हैं यदि क्रियापद
औचित्य से युक्त हों ।
काव्यस्य माधुर्यादिगुणवत्ता वसन्ततिलकादिसुवृत्तता परिपूर्णलक्षण-
साधुता च विराजते, यद्यौचित्ययुक्तं क्रियापदं भवति सुजनस्येवेति
तत्तुल्यत्वं स्पष्टार्थमेव ।
कारिकार्थमेवोपपादयति—काव्यस्येति । काव्यस्य कविकृतेर्माधुर्यादि-
गुणवत्ता माधुर्यौजःप्रसादादिलक्षणगुणयुक्तत्वं, वसन्ततिलकादिसुवृत्तता
वसन्ततिलकेन्द्रवज्रादिसुन्दरवृत्तत्वम् परिपूर्णलक्षणसाधुता च परिपूर्णं
प्रवृत्तं लक्षणं पाणिन्यादिसूत्रं येषु शब्देषु तेषां तत्प्रयुक्तेति यावत्, या काव्य-
गता साधुता शुद्धित्वमथवा सर्वथा काव्यलक्षणानुसारितेति समुदायार्थः,
तदेव, राजते शोभते, यदि क्रियापदं भवति गच्छतीत्यादिरूपमौचित्य-
युक्तमौचित्यान्वितं भवति सुजनस्येवेत्यस्य तत्तुल्यत्वरूपोऽर्थः स्पष्ट एव ।
कारिका के अर्थ को स्पष्ट कह रहे हैं—काव्यस्येति । काव्य की माधुर्यादि-
गुणवत्ता, वसंततिलकादिसुवृत्तता और सर्वलक्षणसंपन्नता तभी स्पृहणीय होती है
यदि क्रियापद औचित्ययुक्त हो । “सत्पुरुषस्येव” इस कथन से ज्ञात होनेवाली
काव्य की सत्पुरुष के साथ समानता स्पष्ट ही है ।
क्रियापदौचित्यं यथा मम नीतिलतायाम्—
यः प्रख्यातजवः सदास्थितिविधौ सप्ताब्धिसन्ध्यार्चने,
दोर्दर्पेण निनाय दुन्दुभिवपुर्यः कालकङ्कालताम् ।
यः पातालमसृङ्मयं प्रविदधे निष्पिष्य मायाविनं,
सुग्रीवाद्यविभूतिलुण्ठनपटुर्वालो स किं स्मर्यते ॥
क्रियापदौचित्यमुदाहर्तुमाह—यथा मम नीतिलतायामिति । यः
प्रख्यातेति । शुकसारणयोः रावणं प्रत्युक्तिरियम् । सप्तसु अब्धिषु समुद्रेषु
सन्ध्याया अर्चने वन्दने, स्थितिविधौ वर्तमानत्वे, यः ( बाली ) सदा
सर्वदा, प्रख्यातः प्रसिद्धो जवो वेगो यस्य सः, सप्तस्वपि समुद्रेषु
सन्ध्यावन्दनं करिष्यामीति प्रतिज्ञापूर्त्यर्थं सन्ध्यात्मकस्वल्पकालेनैव
सप्तसमुद्रगमने निजवेगं प्रादर्शयदित्यभिप्रायः । ( यथा ) यो दोर्दर्पेण
बाहुबलाभिमानेन, दुन्दुभिवपुर्महिषरूपधारिणो दुन्दुभिनामकस्य राक्षस-