औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)
Aucitya Vicara Charcha of Kshemendra with Commentary
महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा
पृष्ठ 140, कुल 256 में से
संदर्भ में पढ़ें८० | औचित्यविचारचर्चा
और नखच्छेद अंकित कर रही हो, साथ ही दन्तक्षत से चिह्नित उस ( युवा )
के अधर का बारबार आस्वादन करके अपनी कामकलाव्यञ्जक चेष्टा करने में
अपनी खुशो प्रकट कर रही हो ।
अत्र श्लेषोपमया तुल्यकक्षाधिरूढयोरपि परस्वरविरुद्धयोरर्थयोर्बी-
भत्सशृङ्गारयोराङ्गाङ्गिभावयोजनायां जम्बुकी तरुणशवस्य क्षीबस्येव
निश्चलस्थितेः सहसैव हृतहृदयपद्माकृष्टचित्ता वा, कण्ठे लग्ना शोणिते
भृशमभिव्यक्तस्पृहा रक्ताभिव्यक्तकामा वा, नखोल्लेखमासूत्रयन्ती दत्त-
दन्तव्रणमधरमास्वाद्यास्वाद्याङ्गच्छेदक्रियायामनङ्गभोगक्रियायां वा,
लग्ना गात्राणामूर्ध्वगतं कर्षशं रतकौशलोत्कर्षं वा, प्रकाशयतीति समा-
नयोर्बीभत्सशृङ्गारयोः कामिनीपदपरित्यागेन केवलं जम्बुक्याः कर्तृत्वेन
बीभत्सस्यैव प्राधान्ये शृङ्गारेऽङ्गतामुपगते वक्तुर्बोधिसत्त्वस्यान्तर्गतगाढ-
वैराग्यवासनाधिवासितचेतसः कुत्साइर्हजुगुप्सया नितम्बिनीरतिविडम्ब-
नमौचित्यरुचिरतामादधाति । यद्यप्यत्र महावाक्ये शान्तस्यैव प्राधान्यं
तथाप्युदाहरणश्लोकवाक्ये बीभत्सस्यैव ।
अत्रोक्तपद्ये, श्लेषोपमया श्लेषमूलकेनोपमालङ्कारेण, तुल्यकक्षाधि-
रूढयोरपि समानस्तरयोरपि, परस्परविरुद्धयोरर्थयोर्मृततरुणजम्बुकी-
वृत्तान्तकामाकुलतरुणतरुणीवृत्तान्तरूपयोरित्यर्थः, बीभत्सशृङ्गारयो-
रङ्गाङ्गिभावरूपेण वर्णनायां, जम्बुकी, क्षीबस्य मत्तस्येव, निश्चल-
स्थितेस्तरुणशवस्य मृतयुवकशरीरस्य, सहसैव हठादेव, हृतहृदयपद्मा
निःसारितहृदया, कृष्टचित्ताऽऽकृष्टमानसा वा, कण्ठे लग्ना सक्ता, शोणिते
भृशमत्यन्तमभिव्यक्तस्पृहा प्रकटितवाञ्छा, रक्ताभिव्यक्तकामाऽनुरक्त-
तया प्रकटितमनसिजविकारा वा, नखोल्लेखं नखाघातमासूत्रयन्ती विद-
धती, दत्तदन्तव्रणं कृतदन्ताघातम्, अधरमास्वाद्यास्वाद्याङ्गच्छेदक्रियायाम-
वयवविनाशकार्येऽनङ्गभोगक्रियायां कामोपभोगकार्ये वा, लग्ना, गात्राणा-
मूर्ध्वगतमूर्ध्वदेशावच्छिन्नं कर्षशं, रतकौशलोत्कर्षं रतिकलावैशिष्ट्यं वा,
प्रकाशयतीति समानयोस्तुल्ययोर्बीभत्सशृङ्गारयोः, कामिनीपदपरित्या-
गेन कान्तापदपरिवर्जनेन, केवलं, जम्बुक्याः शृगाल्याः कर्तृत्वेन बीभत्स-
स्यैव प्राधान्ये मुख्यत्वे, शृङ्गारेऽङ्गतामुपगतेऽङ्गभावमासादिते, वक्तुः
प्रतिपादकस्य, बोधिसत्त्वस्य भगवतो बुद्धस्यान्तर्गतगाढवैराग्यभावनाधि-