सामग्री पर जाएँ
सर्वकोश
औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

Aucitya Vicara Charcha of Kshemendra with Commentary

महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा

DevanagariHindipublished256 पृष्ठ

पृष्ठ 138, कुल 256 में से

संदर्भ में पढ़ें
पृष्ठ 138

७८ औचित्यविचारचर्चा
शृङ्गारेऽङ्गभावमुपनीते पर्यन्ते शान्तस्यैव लोलं जीवितमित्यनित्यता-
प्रतिपादनपरिनिर्वाहेण परमौचित्यमुच्चैः कृतम् ।
अत्रोक्तपद्ये, जन्तुहिताभिनिविष्टेन प्राणिकल्याणकामिना, भगवता
व्यासेन, मोक्षक्षमोपदेशे सायुज्यसारूप्यादिरूपमोक्षप्रदोपदेशेऽङ्गिनः
प्रधानभूतस्य शान्तरसस्य, रागिजनानिष्टत्वादनुरक्तनरानभिप्रेतत्वात्सकल-
जनमनःप्रह्लादने निखिलमानवचित्तानुरञ्जने, बालगुडजिह्विकया गुडं
भक्षयित्वा कर्णौ छेदयतोति लौकिकाचारेण, शृङ्गारेऽङ्गभावमुप-
नीतेऽङ्गतां प्रापिते, शान्ताङ्गतया शृङ्गाररसे वर्णित इति भावः,
पर्यन्ते समाप्तौ, जीवितं, लोलमचिरस्थायीति रीत्याऽनित्यताया जीवना-
स्थैर्यस्य, प्रतिपादनस्य कथनस्य, परिनिर्वाहेण पूर्णतः सिद्ध्या, शान्तस्यैव,
परमौचित्यमतिसमीचीनत्वमुच्चैः कृतं साधु निर्दिष्टम् । एतेन शान्त-
शृङ्गारयोरङ्गाङ्गिभावः समर्थितः क्षेमेन्द्रेणेति बोध्यम् । प्राय एवमेव
ध्वनिकारोऽपि मन्यते, ध्वन्यालोकस्य तृतीयोद्द्योते "विनेयानुन्मुखीकर्तुं
काव्यशोभार्थमेव वा । तद्विरुद्धरसस्पर्शस्तदङ्गानां न दुष्यति" इत्युक्तेः ।
वाग्देवतावतारो मम्मटस्तु "सञ्चार्यादेर्विरुद्धस्य बाध्यस्योक्तिर्गुणावहा"
इति कारिकार्थोदाहरणतयेदं पद्यमुद्धृत्य "इत्यत्राद्यमर्थं बाध्यत्वेनैवोक्तम् ।
जीवितादप्यधिकमपाङ्गभङ्गस्यास्थिरत्वमिति प्रसिद्धभङ्गुरोपमान-
तयोपात्तं शान्तमेव पुष्णाति न पुनः शृङ्गारस्यात्र प्रतीतिस्तदङ्गाप्रति-
पत्तेः । नतु विनेयोन्मुखीकरणमत्र परिहारः, शान्तशृङ्गारयोर्नैरन्तर्य-
स्याभावात् । नापि काव्यशोभाकरणं, रसान्तरादनुप्रासमात्राद्वा तथा-
भावात् । इत्युक्त्या शान्तशृङ्गारयोरङ्गाङ्गिभावं निषेधत्येवेति सुधी-
भिर्विभावनीयम् ।
इस पद्य में मानवकल्याणकामी भगवान् व्यास ने अपने मोक्षप्रद उपदेश
में विषयी जनों के लिये अङ्गिभूतशान्त रस के अनभिप्रेत होने के कारण निखिल-
मानवान्तःकरण के अनुरंजनार्थ 'गुड़ खिलाकर जैसे बच्चे के कान छेद दिये
जाते हैं" उसी तरह अर्थात् आकर्षक वस्तु का प्रलोभन देकर अभिप्रेत विषय
पर ले आने वाली नीति से शृंगार को शान्त अंग बनाकर अंत में "जीवन
चंचल है" इस रूप में जीवन की अनित्यता के प्रतिपादन से शान्त रस की ही
पुष्टि की है। अतः यह शान्त और शृंगार का संकर समुचित है। यहाँ आचार्य