सामग्री पर जाएँ
सर्वकोश
औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

Aucitya Vicara Charcha of Kshemendra with Commentary

महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा

DevanagariHindipublished256 पृष्ठ

पृष्ठ 136, कुल 256 में से

संदर्भ में पढ़ें
पृष्ठ 136

७६ औचित्यविचारचर्चा
तेषां परस्पराश्लेषात्कुर्यादौचित्यरक्षणम्।
अनौचित्येन संस्पृष्टः कस्येष्टो रससङ्करः॥ १८ ॥
रससङ्करौचित्यं परिभाषितुमाह—यथा मधुरेति। यथा कुशल-
योजिताः पाकविधिज्ञजनप्रयुक्ताः मधुरतिक्ताद्या मधुराम्ललवणादिषट्-
प्रकारका रसा विचित्रास्वादतामपूर्वास्वाद्यतां, यान्ति प्राप्नुवन्ति, तथैव
शृङ्गाराद्याः शृङ्गारवीरादयोऽपि रसाः, मिथः परस्परं सम्मिलिताः,
विशिष्टानुरञ्जनप्रदा भवन्तीति भावः। (परन्तु) तेषां शृङ्गारवीरादीनां
रसानां, परस्पराश्लेषात्पारस्परिकसम्मिश्रणादौचित्यरक्षणमुक्तलक्षणौ-
चित्यस्य रक्षणं, कुर्यात्कुर्वीत। (यतो हि) अनौचित्येन संस्पृष्टः अनौ-
चित्यलेशमात्रवासितोऽपि, रससङ्करो रससम्मिश्रणं, कस्येष्टोऽभिलषितोऽपि
तु न कस्यापीति भावः।
रससंकरौचित्य की परिभाषा की जा रही है यथा मधुरेति। पाकविधि के
विशेष जानकार पाचकों के द्वारा मीठे-कड़वे रसों के सम्मिश्रण से जैसे अपूर्व
स्वाद प्राप्त होता है, वैसे ही शृङ्गार-वीर आदि रसों का संकर (मिश्रण) भी
अपूर्व आनन्द की सृष्टि कर देता है। परन्तु दो-तीन रसों का मिश्रण करते
समय औचित्यरक्षण के ऊपर बराबर ध्यान केन्द्रित रखना चाहिये, क्योंकि
औचित्य से रहित रससंकर कभी भी आनन्दप्रद नहीं हो सकता है।
रसाः कटुकमधुराम्ललवणाद्याः कुशलसूदेन वेसवारपानादिषु योजिता
विचित्रास्वादतामुपयान्ति तथैव परस्परमविरुद्धाः शृङ्गारादय इति
तेषामन्योन्यमङ्गभावयोजनायामौचित्यस्य जीवितसर्वस्वभूतस्य रक्षां
कुर्यात्। अनौचित्यरजसा रससंयोगः स्पृष्टो न कस्यचिदभिमत इत्यर्थः।
उक्तार्थमेव विवृण्वन्नाह--रसा इति। कटुकमधुराम्ललवणाद्या जिह्वा-
माध्यमेनानुभवनीया रसाः, कुशलसूदेन पाचनक्रियाभिज्ञपाचकद्वारा, वेस-
वारपानादिषु शुण्ठ्यादिचूर्णघटितपेयविशेषेषु, योजिताः सम्मेलिताः, यथा
विचित्रास्वादतामपूर्वास्वादनीयतामुपयान्ति गच्छन्ति, तथैव परस्परम-
न्योन्यमविरुद्धा विरोधभावरहिताः शृङ्गारादयः शृङ्गार-वीर-हासादयो
हृदयमाध्यमेनानुभवनीया रसाः, इति तेषां रसानामन्योऽन्यं परस्परमङ्ग-
भावयोजनायामङ्गाङ्गिभावरूपेण सम्मेलनकाले, जीवितसर्वस्वस्य प्राणाधा-
यकस्यौचित्यस्यानुरूपभावस्य रक्षां कुर्याद्रक्षणं विदध्यात्। (यतो हि)