औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)
Aucitya Vicara Charcha of Kshemendra with Commentary
महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा
पृष्ठ 133, कुल 256 में से
संदर्भ में पढ़ेंसंस्कृत-हिन्दीव्याख्याद्वयोपेता ७३
सरसमशनं कुल्माषो वा धनानि तृणानि वा,
शमसुखसुधापानक्षब्ये समं हि महात्मनाम् ॥
शान्तरसौचित्यस्य द्वितीयमुदाहरणमुपस्थापयितुमाह—यथा वा
ममेति । कुसुमेति । कुसुमशयनं पुष्पशय्या, वा अथवा, पाषाणः कर्कशशिला,
प्रियं स्पृहणीयं, भवनमट्टालिकाऽथवाऽरक्षितं वनं, प्रतनु सूक्ष्मसूत्रमयं,
मसृणस्पर्शं कोमलं, वासो वस्त्रम्, अथाथवा, तरोरियं तारवी तरुसम्बन्धि-
नीति यावत्, त्वक् वल्कलं, सरसं स्निग्धं घृतादिसमन्वितमशनं भोजनं,
वा, कुल्माषो नीरसं यवपिष्टं, धनानि सम्पत्तयो वाऽथवा, तृणानि निः-
सारघासादीनि, महात्मनां जीवन्मुक्तानां, शमस्य शान्तेर्यत्सुखं तदेव
सुधाऽमृतं तस्याः पानेन क्षैब्ये सति उन्मत्ततायां सत्यां, समं तुल्यं, सर्वं
पूर्वोक्तमिति भावः ।
शान्तरसौचित्य का दूसरा उदाहरण दिखलाने के लिये कहा गया है—यथा
वा ममेति । कुसुमेति । उन महात्माओं के लिये (जो कि घृणा और आकर्षण
भी परिधि से बाहर हैं तथा शान्तिसुखरूप अमृत के पान से उन्मत्त से हो रहे
हैं) कोई भी वस्तु विशिष्ट या निकृष्ट नहीं होती, उनके लिये तो सुखद अट्टा-
लिका हो या दुःखप्रद सघन कानन कोमल और महीन पट्टवस्त्र हो या रुखड़े
वल्कल, स्निग्ध भोजन हो या शुष्क कदन्न, धन हो या तृण, सभी बराबर ही
मूल्य रखते हैं ।
अत्र सकलविकल्पतल्परहिताभेदावभाससमानात्मतत्त्वविश्रान्तिजनित-
सर्वसाम्यसमुल्लसितशमसुखपीयूषपानोदितनित्यानन्दघूर्णमानमानसानां
प्रियाप्रियसुखदुःखादिषु महतां सदृशी प्रतिपत्तिरिति जीवन्मुक्तिसमु-
चितमभिहितम् ।
अत्रोक्तपद्ये, सकलेन सर्वविधेन, विकल्पतल्पेन विकल्पास्पदेन, द्वैत-
भावमिश्रितकल्पनयेति यावत्, रहितमत एवाभेदेन सकलपदार्थाभिन्न-
तया योऽवभासः प्रतीतिः, तत्समानं तत्तुल्यं, यदात्मतत्त्वं, तत्र या
विश्रान्तिः स्थितिस्तज्जनितं तदुत्पन्नं, यत्सर्वसाम्यं सर्वसाधारण्यं, तेन
समुल्लसितमुद्भासितं, यच्छमसुखं शान्तिजन्यानन्दस्तदेवामृतं, तत्पानेन
तदास्वादनेनोदितः समुत्पन्नः, यो नित्यानन्दः शाश्वतिकानन्दस्तेन घूर्ण-
मानं मत्ततामाश्रयमाणं, मानसं चित्तं, येषान्तेषां महतां महापुरुषाणां,
प्रियाप्रियसुखदुःखादिष्वनुरक्तिविरक्तिकारणेध्विति भावः, सदृशी समानेव,