सामग्री पर जाएँ
सर्वकोश
औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

Aucitya Vicara Charcha of Kshemendra with Commentary

महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा

DevanagariHindipublished256 पृष्ठ

पृष्ठ 123, कुल 256 में से

संदर्भ में पढ़ें
पृष्ठ 123

संस्कृत-हिन्दीव्याख्याद्वयोपेता ६३
अपि च--
नष्टं वर्षवरैर्मनुष्यगणनाभावादकृत्वा त्रपा-
मन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः ।
पर्यन्ताश्रयिभिर्निजस्य सदृशं नाम्नः किरातैः कृतं,
कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः ॥
भयानकरसौचित्यं प्रदर्शयितुं रत्नावलीनाटिकायाः पद्यद्वयमुपस्था-
पयति--भयानके यथेति । अन्तःपुरं प्रविष्टस्य वानरस्य वर्णनमिदम्--
कण्ठे इति । कण्ठे गले, कृत्तस्य छिन्नस्यावशेषमवशिष्टं, कनकमयं सौवर्णं,
शृङ्खलादाम बन्धनपाशम्, अधःकर्षन्, द्वाराणि देहलीः, क्रान्त्वोल्लङ्घ्य,
हेलया लीलावशेन, चलयोश्चञ्चलयोः, चरणयोः पादयोः, रणच्छन्दायमान,
किङ्किणीचक्रवालं क्षुद्रघण्टिकासमूहो यस्य सः, अत एवाङ्गनानामुत्सव-
दर्शनार्थमायातानामन्तःपुरिकस्त्रीणां, दत्तातङ्कः प्रदत्तभयोऽश्वपालैर्वाजि-
रक्षकैः, सम्भ्रमाद्वेगादनुसृतसरणिर्ऽनुगतमार्गः कृतानुसरण इति यावत्,
मन्दुरायाः पशुशालायाः प्रभ्रष्टो निःसृतः सन्, अयं पुरोवर्ती, प्लवङ्गो
वानरः नृपतेर्महाराजस्य, मन्दिरं गृहं प्रविशति ।
पूर्ववर्णितवानरप्रवेशजन्यभयप्रतिक्रियास्वरूपान्तःपुरसंभ्रान्ततां प्रदर्श-
यितुमाह- अपि च किञ्चेति । नष्टमिति । मनुष्येषु पुंसु, गणनायाः संख्या-
नस्याभावात्क्लीबो न पुमानिति हेतोरिति भावस्त्रपां पलायनजन्यलज्जाम्,
अकृत्वाऽपास्य, त्रासाद् भयाद्, वर्षवरैरन्तःपुरचारिभिर्नपुंसकैर्नष्टम्
पलायितम् । अयं पुरोवर्ती, वामनः खर्वाकृतिर्मनुष्यः, कञ्चुकिनो वृद्ध-
ब्राह्मणस्य, कञ्चुकस्य बृहच्छरीरावरण्यान्तरभ्यन्तरं, विशति स्वात्मानं
गोपयितुं प्रविष्टो भवतीति भावः । किरातैः पर्यन्ताश्रयिभिर्नगरगामिभिः
सद्भिः, निजस्य स्वस्य, नाम्नः किरातेतिस्ववाचकपदस्य, सदृशमनुरूपं
कृतम्, अर्थात् किरं प्रान्तदेशमतति गच्छतीति व्युत्पत्तिलभ्यार्थः सार्थकीकृतः।
स्थानान्तराश्रयणं कृतमिति भावः । तथाऽऽत्मनां निजानामीक्षणं वानर-
कर्तृकदर्शनमाशङ्कन्ते इति ते यथाभूताः, कुब्जा जनाः, शनकैर्मन्दं मन्दं,
नीचतयैव स्वाभाविकखर्वंतायां सत्यामपि पुनः खर्वीकृतविग्रहतया यान्ति
गच्छन्ति ।
भयानक-रसौचित्य का उदाहरण दिखाने के लिये कहा गया है—भयानके
यथेति । कण्ठे इति । ये पद्य रत्नावली नाटिका के हैं। पशुशाला से बन्धन तोड़कर