औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)
Aucitya Vicara Charcha of Kshemendra with Commentary
महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा
पृष्ठ 121, कुल 256 में से
संदर्भ में पढ़ेंसंस्कृत-हिन्दीव्याख्याद्वयोपेता ६१
यानि त्रीणि कुतोमुखान्यपि पदान्यासन्खरायाोधने,
यद्वा कौशलमिन्द्रसूनुदमने तत्राप्यभिज्ञो जनः ॥
वीररसानौचित्यं प्रदर्शयितुमुपक्रमते—नतु यथा भवभूतेरिति । वृद्धा
इति । चन्द्रकेतुं प्रति लवस्योक्तिरियम् । वृद्धाः परिणतवयसस्ते रामादयः,
विचारणीयान्यलोचनीयानि, चरितानि चरित्राणि कार्यकलापादीनि,
येषान्ते तादृशाः, न, तिष्ठन्तु वर्तन्तां, सम्भावनायां लोट्, एतेषां वयोमात्रं
गौरवकारणं न चरितमिति भावः । 'हुँ शब्दो वितर्के ।' क्वचित् "हुँ वर्तते"
इति पाठः, तत्र पाठे सर्वप्रथमं वर्तते रामचरितविषये किमपि वक्तव्य-
मिति शेषः, एवं व्याख्यायाग्रे व्याख्येयम् । क्वचिच्च "किं वर्ण्यते" इति
पाठः । तत्र ते वृद्धा विचारणीयचरिता न, अतस्तद्विषये किं वर्ण्यते न
किमपि वर्णनीयमिति भाव' इत्येवंरीत्या व्याख्येयम् । वर्तमानपाठे तु
वर्ततामित्यस्य युद्धमित्यनेन सम्बद्धं विधायान्ते योगो विधेयः । स्त्रिया-
स्ताडकायाः सुन्दस्त्रिया दमने वधे, अप्यखण्डं परिपूर्णं यशः कीर्तिर्येषामेवं-
भूतास्ते लोके संसारे, हि निश्चयेन, महान्तः श्रेष्ठा एव । शास्त्रविरुद्धस्त्री-
वधाचरणेऽपि लोकास्तान्प्रशंसन्त्येवेत्यहो तेषां महत्त्वमिति भावः । खरेण
तदाख्यमहासुरेणायोधने युद्धे, यानि त्रीणि त्रिसंख्याकानि, कुतोमुखानि
यतस्ततो निःक्षिप्तानि युद्धादपसर्तुमिति भावः, पदानि चरणान्यप्यासन्,
खरयुद्धे रामो द्वित्राणि पदानि पराङ्मुखीकृतान्यकार्षीदिति रामायणे,
प्रसिद्धम्; वाऽथवेन्द्रसूनोर्देवेन्द्रपुत्रस्य बालिन इति यावत्, निधने मारणे,
यत् कौशलं नैपुण्यं छद्माघात इति यावत्, रामस्यासीदिति शेषः, तत्रापि
तेष्वपि, रामचरितेषु जनः साधारणोऽपि लोकोऽभिज्ञो ज्ञानवान्,
अतस्तत्सर्वं तिष्ठतु युद्धं वर्तताम् । रामचरितचर्चामपहायावाभ्यां युद्धमेव
विधेयमिति भावः ।
वीररसानौचित्य को प्रदर्शित करने के लिये कहा गया है—नतु यथा भवभूते
रिति । वृद्धा इति—चन्द्रकेतु के प्रत्युत्तर में लव रामचरित का उपहास करता हुआ
कह रहा है कि रघुपति के चरित्र को कौन नहीं जानता ? वे बूढ़े हैं अतः जवानों
के विचार की कोटि में नहीं आ सकते, उनकी महिमा का क्या कहना ? जहां
संसार के अन्य व्यक्ति स्त्रीहत्या को जघन्य कर्म मानते हैं वहीं उन्होंने सुन्दर
स्त्री ताड़का की हत्या करके भी संसार में अखंड कीर्ति का लाभ किया, अथवा
खर के साथ हुए युद्ध में जो उन्होंने तीन पैर पीछे हटाये तथा इन्द्रपुत्र बालि