सामग्री पर जाएँ
सर्वकोश
औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

Aucitya Vicara Charcha of Kshemendra with Commentary

महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा

DevanagariHindipublished256 पृष्ठ

पृष्ठ 12, कुल 256 में से

संदर्भ में पढ़ें
पृष्ठ 12

( ८ )

गुरु-चरण-संस्मरण-सञ्जातावबोधोऽहमस्याः संस्कृत-हिन्दी-समन्वितां प्रभा-
भिधां व्याख्यां सकलान्यकार्यसंपादनेन सहैव षण्मासाभ्यन्तरे पूर्णतामनयम् ।
व्याख्येयं कीदृशी सम्पन्नैत्यत्र सहृदया विद्वांस एव प्रमाणभूताः । अस्या व्याख्यायाः
प्रभेतिनामकरणे प्रभानाम्नी स्तनन्धया मदङ्गजा प्रेरिका ।
तदानीमहं वैद्यनाथधामस्थगुरुकुलमहाविद्यालयेऽध्यापनं कुर्वाण आसम् ।
गुरुकुलञ्चावासीयः ( Residential ) विद्यालयो भवति । आवासीयविद्यालया-
ध्यापकस्य च जीवनं रात्रिन्दिवं व्यस्तकार्यक्रमसंचालन एव व्यत्येति । अस्यां
स्थितौ यद्यपि एकान्ताध्यवसाय-साध्यं व्याख्याकार्यं मम कृते दुष्करप्रायमासीत्,
तथापि तत्रत्यानां प्राचार्याणामुदार-शासन-प्रणाल्या, पुस्तकालयाध्यक्षाणां सह-
योगात्मकप्रवृत्त्या, मित्रवराणां समुत्साहकप्रकृत्या च नितरामुत्साहितोऽहं कथंकथ-
मपि कृतकृत्योऽभवम् ।
एतदर्थमहं वैद्यनाथधामस्थ-गुरुकुलमहाविद्यालयस्य प्राचार्येभ्यः श्री पं० महा-
देवशरणमहाभागेभ्यः तदानींतन-तत्रत्य-पुस्तकालयाध्यक्षेभ्यः श्री पं० उमाकान्त-
शास्त्रिमहानुभावेभ्यः, प्रियसहृच्छ्रीजगन्नाथपाठकमहोदयेभ्यस्तथाऽन्येभ्योऽपि सह-
कर्मिभ्यः कृत विविध-सहायेभ्यः हार्दिकाननेकान् धन्यवादानर्पयामि ।
सहैव स्वसतीर्थ्यस्य स्वान्तेवासिनश्च व्याकरणसाहित्याचार्यस्य श्री पं० विद्यानाथ
मिश्र एम. ए. महोदयस्यापि प्रयासो न मे विस्मरणीयः, यस्मान्ममैतत्पुस्तक-
प्राप्तिरभूत्, अतः सोऽपि धन्यवादार्हः ।
सर्वतो धन्यवादार्हास्तु श्रेष्ठि-श्रीजयकृष्णदासहरिदासगुप्तमहानुभावाः, येञ्चै-
तत्प्रकाशनमङ्गीकृत्य मत्प्रयासः सफलीकृतः ।
अन्ते च सकल-सहायक-विदुषामाभारमावहन्नहं वक्तव्यमिदं संवृणोमि ।
यद्यनया व्याख्ययाऽध्येतृध्यापकानां भविष्यति मनागप्युपकारस्तदैवाहं कृत-
कृत्यो भविष्यामि प्रयासं वा सफलं मंस्ये । अलमतिविस्तरेण । शमिति !
सप्रणयावनतस्य
व्रजमोहनस्य