औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)
Aucitya Vicara Charcha of Kshemendra with Commentary
महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा
पृष्ठ 11, कुल 256 में से
संदर्भ में पढ़ेंसाम्प्रतिकप्रसिद्धचप्रसिद्धी मूलतः कारणे कस्याप्यु-
त्कर्षापकर्षयोरिति । एतत्तु महामहिम्नो भगवतः कालस्यैव माहात्म्यं येन कदा-
चित्कोऽप्युपचीयतेऽपचीयते वा ।
तस्माद्ये केऽपि कृतविद्याः सुरभारत्याः श्रीवर्धने मनागप्यायासमकुर्वंस्ते
सर्वेऽपि नः परमादरपात्रम् । अस्तु तस्यैव महामहिमशालिनः कालस्य प्रभावा-
दस्यां शताब्द्यां पुनरौचित्यवादो विदुषां ध्यानमाकर्षत् । येन यत्र तत्र तच्चर्चा
प्रारब्धा, पत्र-पत्रिकादिषु विवेचना स्थानमलभत, विद्वत्समाजे विचारविनिमय-
कोटिमाश्रयच्च ।
इत्थमयं वादो ममाप्यन्तःस्थलं स्प्रष्टुं प्राभवत् । हठादहं परिणाममननुसंधायैव
तद्वादव्यापिकाया 'औचित्यविचारचर्चाया' व्याख्यां विधातुं प्रत्यज्ञासिषम् ।
Everything is ready to output.आत्मोद्गारः
अये विद्या