औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)
Aucitya Vicara Charcha of Kshemendra with Commentary
महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा
पृष्ठ 116, कुल 256 में से
संदर्भ में पढ़ें५६ औचित्यविचारचर्चा
नतु यथा श्रीप्रवरसेनस्य--
दणुइन्दरुहिरलग्गे जस्स फुरन्ते णहप्पहाविच्छडे ।
गुप्पन्ती विवलाआ गलिअबत्थणंसुए, महासुरलच्छी ॥
[ दनुजेन्द्ररुधिरलग्ने यस्य स्फुरति नखप्रभासमूहे ।
व्याकुलीभवन्ती विपलायिता गलितस्तनांशुका महासुरलक्ष्मीः ॥ ]
॥ इति छाया ॥
रौद्ररसानौचित्यं प्रदर्शयितुमाह-नतु यथा श्रीप्रवरसेनस्येति ।
दणुइन्देति ।
हिरण्यकशिपुविनाशकारिणो भगवतो नृसिंहस्य वर्णनेयम् । दनुजेन्द्र-
रुधिरलग्ने हिरण्यकशिपुरक्तव्याप्ते, यस्य नृसिंहस्य, नखप्रभासमूहे नख-
द्युतिसंघे, स्फुरति भासमाने सति, महासुरलक्ष्मीर्दैत्यराजश्रीः, व्याकुली-
भवन्ती क्लान्तचित्ताऽत एव गलितस्तनांशुका पतितकुचवस्त्रा, विपला-
यिता दूरं गता ।
दनुजेन्द्र ( हिरण्यकशिपु ) के रक्त से लिप्त जिनके नखद्युति की चमक से
व्याकुल होती हुई हिरण्यकशिपु की राज्यलक्ष्मी विवस्त्रा होकर भाग गयी ।
अत्र क्रोधव्यञ्जकपदविरहिततया "दनुजेन्द्ररुधिरलग्ने यस्य नृसिंहस्य
स्फुरति नखप्रभासमूहे व्याकुलीभवन्ती विपलायिता गलितस्तनांशुका
महासुरलक्ष्मीः" इति वर्णनया रुधिरलग्न इति बीभत्सरससंस्पर्शे व्या-
कुलीभवन्ती दैत्यश्रीः पलायितेति भयानकरससङ्करेण प्रकृतोचितप्रधान-
भूतस्य रौद्ररसस्य क्वचिन्मुखमपि न दृश्यते ।
पूर्वोक्तपद्यमेवोपपादयत्यत्रेति । अत्र पद्ये, क्रोधव्यञ्जकपदविरहिततया
कोपसूचकपदप्रयोगाभावेन, "दनुजेन्द्ररुधिरलग्ने" इत्यादिवर्णनेन, रुधिर-
लग्न इतिकथनात्, बीभत्सरससंस्पर्शेऽसृगादिवर्णनाया बीभत्सरसोपयुक्त-
त्वेन सर्वसम्मततया प्रकृते तदुपयोगाद्बीभत्सरसप्रवेशे इति भावः । तथा
व्याकुलीभवन्ती दैत्यश्रीः पलायितेतिभयानकरससङ्करेणार्थात् आतङ्कादे-