औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)
Aucitya Vicara Charcha of Kshemendra with Commentary
महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा
पृष्ठ 113, कुल 256 में से
संदर्भ में पढ़ेंसंस्कृत-हिन्दीव्याख्याद्वयोपेता ५३
हा देवोज्जयिनीभुजङ्ग युवतिप्रत्यक्षकन्दर्प हा,
हा सद्बान्धव हा कलामृतकर ? क्वासि प्रतीक्षस्व नः ॥
करुणरसानौचित्यं प्रदर्शयितुमाह — नतु यथेति । हा शृङ्गारेति ।
हेति शोके शृङ्गारस्तन्नामकरसः स एव तरङ्गिणी नदी, तस्याः कुलगिरिः
कुलपर्वतो, नदीप्रभवाः केचन हिमालयादिमुख्यपर्वताः कुलपर्वतत्वेन
परिगणितास्तदन्यतम इति भावः, तत्संबुद्धौ रूपं, यथा तरङ्गिणीनां
मूलभूताः पर्वता एव तथैव त्वमेव शृङ्गाररसस्यादिकारणमिति बोध्यम्,
हा, राज्ञामन्यभूपालानां, चूडामणिर्मुकुटमणिरिव वर्तमानस्तत्संबुद्धौ,
हहेति शोकोपचये, विदग्धो विज्ञजनस्तस्य भावो वैदग्ध्यं, तस्य दुग्धोदधिः
क्षीरसागरस्तत्संबुद्धौ, हा देव हा राजन् ?, उज्जयिन्यास्तन्नामकनगर्या
भुजङ्गो विटः कामुक इति यावत्तत्संबुद्धौ, हा, युवतीनां यौवनसंपन्न-
सुन्दरीणां प्रत्यक्षः साक्षात् । कन्दर्पः कामदेवः, सुन्दरत्वेनोन्मादकत्वा-
दिति भावस्तत्सम्बुद्धौ, हा सद्बान्धव ? हा सन्मित्र ?, हा, कलेवामृतं
तत्करोतीति तत्संबुद्धौ, क्वासि क्व वर्तसे, न, स्त्वद्वियोगज्वालावलीढान-
स्मान्, प्रतीक्षस्व विलोकय ।
करुण रस के अनौचित्य को प्रदर्शित करने के लिये कहा जा रहा है—नतु-
यथेति । हा शृङ्गारेति । उज्जयिनीपति के निधन से शोक संतप्त उनके बान्धव
विलाप कर रहे हैं कि हे देव ? तुम शृङ्गार तरङ्गिणी के लिये एकमात्र उत्स,
भूधर के समान थे, राजाओं के मुकुटों के मणि, सुजनतारूप अमृत के आगार,
और विदग्धता के समुद्र थे, युवतियों के लिये साक्षात् कामदेव, सज्जनों के मित्र
तथा अपूर्व कलाकार थे, तुम कहाँ हो मेरी ओर दृष्टपात करो न ? ।
अत्र 'हाहेति हतमहीपतिविरहे तद्गुणामन्त्रणपदैर्वक्तृवक्त्रगत एव
शोकः केवलमुपलक्ष्यते, नतु विभावातुभावव्यभिचारिसंयोगेन शोकाख्यस्य
स्थायिभावोचितं रसीकरणं किञ्चिन्निष्पन्नम् ।
अत्र, "हाहेतिशब्दस्य प्राचुर्येण, हतमहीपतिविरहे दिवङ्गतमही-
पतिविरहे, तद्गुणामन्त्रणपदैस्तद्गुणाख्यापकशब्दैर्वक्तृवक्त्रगत एव प्रति-
पादकमुखनिष्ठ एव, शोकः, केवलमुपलक्ष्यते, विज्ञायते । नतु विभावा-