औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)
Aucitya Vicara Charcha of Kshemendra with Commentary
महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा
पृष्ठ 112, कुल 256 में से
संदर्भ में पढ़ें५२ औचित्यविचारचर्चा
अत्र प्रत्यग्रोपनतप्रियतरतनयवियोगोपजनितशोकाख्यस्थायिभावो-
चितं—दृषदामपि हृदयद्रावणं सुभद्रया यत्प्रलपितं तदर्जुनचेतसि प्रति-
फलितं न केवलमुद्दीप्ततामुपगतं यावत्तिरश्चां तुरङ्गमाणामप्यन्तःसंक्रान्त-
मुद्द्बाष्पविमुक्तशष्पकवलनिःस्पन्दमन्द-स्थितादिभिरनुभावैरुदीर्णतरुणकरु-
णरसप्रतिपत्तिं किमप्यादधाति।
अत्रोपयुक्तपद्ये प्रत्यग्रं तत्कालमेवोपनतस्य संप्राप्तस्य, प्रियतरस्य
हृद्यस्य, तनयस्य पुत्रस्य, वियोगेन मृत्युनोपजनितो यः शोकाख्यस्थायिभाव
स्तदुचितं तदुपयुक्तं, दृषदामपि प्रस्तराणामपि, हृदयद्रावणं चित्तद्रावि,
यथा स्यात्तथा, सुभद्रया तन्मात्रा, यत्, प्रलपितं विलपितं, तदर्जुनचेतसि
पार्थचित्ते, प्रतिफ़लितं प्रतिबिम्बितं सत्, न