औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)
Aucitya Vicara Charcha of Kshemendra with Commentary
महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा
पृष्ठ 110, कुल 256 में से
संदर्भ में पढ़ें५० औचित्यविचारचर्चा
हास्यरसानौचित्यस्योदाहरणमुपस्थापयितुमाह- नतु यथा श्यामेति ।
चुम्बनेति । चुम्बने सक्तः संलग्नः कश्चिदधमो नायको, ऽस्याश्चुम्ब्यमानाया
वृद्धाया नायिकाया, श्च्युतं मूलमादिर्यस्यैवंभूतं त्रुटितमिति यावत् ।
जिह्वामूले कण्ठे, प्राप्तमुपस्थितं, दशनं दन्तं, खाडिति कृत्वा, निष्ठीवन-
कालिकमुद्रोच्चरितखाडितिशब्दविशेषं विधायात्मनः स्वस्य, वदनान्मुखात्,
निरष्ठीवत्ष्ठीवनमकार्षीत् ।
हास्यरसानौचित्य का उदाहरण दिखाने के लिए कहा जा रहा है—नतु
यथेति । चुम्बनेति । कोई अधम नायक किसी बूढ़ी को चूम रहा था, बूढ़ी का
एक दाँत टूट कर उस नायक के कण्ठ में चला गया जिसको खखार कर उसने
थूक दिया ।
अत्र हास्यरसस्य बीभत्सरसाधिवासितस्य लसुनलिप्तस्येव कुसुम-
शेखरस्यातिजुगुप्सितत्वादनीप्सितस्य परमानौचित्येन चमत्कारस्ति-
रोहितः । वृद्धापरिचुम्बने जिह्वामूलप्राप्तस्य च्युतदशनस्य कण्ठलोलिनः
ष्ठीवनेन बीभत्सस्यैव प्राधान्यम्, नतु हास्यरसस्य ।
अत्र पद्ये, लसुनलिप्तस्य रसोनरससम्पृक्तस्य, कुसुमशेखरस्य पुष्प-
माल्यस्य, अर्थात्स्वसुगन्धापेक्षयाधिकदुर्गन्धेन युक्तपुष्पमाल्यस्येवातिजु-
गुप्सितत्वादतिबीभत्सत्वादनीप्सितस्यानभिलषितस्य, बीभत्सरसाधि-
वासितस्य बीभत्सरसमिश्रितस्य, हास्यरसस्य, परमानौचित्येनात्यन्तम-
नुचितत्वेन, चमत्कारो विच्छित्तिस्तिरोहितो गुणीकृतः । गुणीकृतत्वे
हेतुमाह—वृद्धेति । वृद्धायाः परिचुम्बने, जिह्वामूलप्राप्तस्य, कण्ठलोलिनो
गललुण्ठनशीलस्य, च्युतदशनस्य पतितदन्तस्य वृद्धासम्बन्धिन इति भावः
ष्ठीवनेन थूत्करणेन, बीभत्सस्यैव बीभत्सरसस्यैव, प्राधान्यं मुख्यत्वं, नतु
ह्वास्यरसस्य । अत एवेदृशपरियोजना हास्यरसानौचित्यसूचिकेति भावः ।
जैसे लसुन के रस से लिप्त अतएव स्वकीय सुगंधापेक्षया अधिक दुर्गन्ध
युक्त पुष्पमाला घृणास्पद हो जाने से अनीप्सित हो जाती है वैसे ही बीभत्स-
मिश्रित-हास्यरस का वर्णन सर्वथा अनुचित है, क्योंकि एसी स्थिति में हास्य