औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)
Aucitya Vicara Charcha of Kshemendra with Commentary
महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा
पृष्ठ 106, कुल 256 में से
संदर्भ में पढ़ें४६ औचित्यविचारचर्चा
स्त्यर्थः, केवलकर्णिकारकुसुमवर्णनेन निर्गन्धकर्णिकारपुष्पवर्णनमात्रेण,
तदुद्दीपनविभावोचितं शृङ्गारोद्दीपनविभावानुरूपं, न किञ्चित्,
अभिहितमुक्तम् ।
इस पद्य में कर्णिकारपुष्प का वर्णन ऐसा किया गया है । जिससे प्रकृत
शृङ्गाररस का कुछ भी उद्दीपन नहीं हो रहा है केवल विधाता की निन्दा ही
व्यक्त होती है । अतः शृंगाररस के उद्दीपन विभावों के प्रसंग में ऐसा वर्णन कुछ
भी औचित्य नहीं रखता, इसलिए यह पद्य रसानौचित्य का उदाहरण कहा जा
सकता है ।
हास्यरसे यथा मम लावण्यवतीनाम्नि काव्ये—
सीधुस्पर्शभयान्न चुम्बसि मुखं किं नासिकां गूहसे,
रे रे श्रोत्रियतां तनोषि विषमां मन्दोऽसि वेश्यां विना ।
इत्युक्त्वा मदघूर्णमाननयना वासन्तिका मालती-
लीनस्यात्रिवसोः करोति वकुलस्येवासवासेचनम् ॥
शृङ्गाररसौचित्ययोरुदाहरणे प्रतिपाद्य सम्प्रति हास्यरसौचित्यं
प्रदर्शयितुमाह—हास्यरसे यथा ममेति । सीधुस्पर्शेति । रे रे अत्रिवसो ?
सीधुस्पर्शभयान्मद्यसंसर्गभीतेः, मुखमाननं, मदीयमिति भावः, न
चुम्बसि, नासिकां नासापुटं, किं किमर्थं, गूहसे मुद्रयसि, मद्यगन्धा-
घ्राणवारणाय रुद्धश्वासां विदधासीति स्पष्टोऽर्थः, एवंविधाचरणेन, विष-
मामनुचितां, श्रोत्रियतां वेदविहितकर्मानुष्ठायितां, तनोषि विस्तारयसि,
परमेतत्सर्वं व्यर्थम् यतो वेश्यां वारनारीं, तदासक्तिमितिलक्षणयार्थ
इति पूर्वोपस्थितामुक्त्वा, मदेन घूर्णमाने नयने यस्यास्तादृशी, वासन्तिका
तन्नामिका कापि वेश्या, मालतीलीनस्य मालतीनामिकायां स्वपत्न्यां,
लीनस्य परमासक्तस्यात एव वेश्यानुरागमुपेक्षमाणस्येति भावः, अत्रिव-
सोस्तन्नाम्नः कस्यचिद्ब्राह्मणस्य, बकुलस्य—बकुलनामख्यातपुष्पतरु
विशेषस्येव, आसवासेचनं मद्यकरणकं सेकं करोतीत्यर्थः । “विकसित
बकुलं योषितामाद्यमद्यै—” रितिकविप्रसिद्धिरीत्या यथा कामिनी शुष्कप्रायं
बकुलतरुं सरसं विधातुं मद्यगण्डूषेण सिञ्चति तथैव नीरसमत्रिवसुं सरसं