औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)
Aucitya Vicara Charcha of Kshemendra with Commentary
महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा
पृष्ठ 104, कुल 256 में से
संदर्भ में पढ़ें४४ औचित्यविचारचर्चा
आरोप कर देने से अत्यधिक औचित्य के चलते सुन्दरतम चमत्कार को करने
वाला हो गया है ।
यथा वा कालिदासस्य—
बालेन्दुवक्राण्यविकासभावाद्वभुः पलाशान्यतिलोहितानि ।
सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥
रसगतौचित्यस्य द्वितीयमुदाहरणमुपस्थापयति--यथा वा कालिदास-
स्येति । बालेति । अविकासभावाद्विकसितत्वाद्धेतोः, बालेन्दुवद् द्वितीया-
चन्द्रवद्, वक्राणि कुटिलान्यतिलोहितान्यत्यन्तरक्तानि, पलाशानि किशु-
कानि, वसन्तेन सुरभिणा ( नायकेन कर्त्रा ), सद्यस्तत्कालमेव, समा-
गतानां सम्पादितसंगमानां, वनस्थलीनामकृत्रिमवनभूमीनां ( नायिका-
नाम् ), नखक्षतानि कामक्रीडाविहितनखचिह्नानीव बभुः शुशुभिरे ।
रसगत औचित्य का दूसरा उदाहरण उपस्थित किया जा रहा है—यथा
वेति । बालेति । अविकसित होने के कारण द्वितीया के चन्द्र के समान टेढ़े टेढ़े
और लाल लाल पलाश के फूल ठीक उसी तरह शोभित हुए जैसे वसंतरूप
नायक के साथ अभी अभी समागम करके आयी हुयी वनस्थलीरूप नायिका के
कपोलगत नखक्षत हों ।
अत्र पार्वत्यां परमेश्वरस्याभिलाषशृङ्गारे वक्ष्यमाणे प्रथममुद्दीपन-
विभावभूतस्य वसन्तस्य वर्णनायां कामुकाध्यारोपेण वनस्थलीललनानां
कुटिललोहितपलाशकलिकाभिर्नवसंगमयोग्यनखतान्युत्प्रेक्षितानि पर-
मामौचित्यचारुतां प्रतिपादयन्ति ।
अत्रोक्तपद्ये, पार्वत्यामुमायां, परमेश्वरस्य शंकरस्याभिलाषशृङ्गारे-
ऽभिलाषात्मके शृङ्गारे, वक्ष्यमाणेऽग्रे कथयिष्यमाणे, प्रथमं पूर्वमुद्दी-
पनविभावभूतस्योद्दीपनकारणरूपस्य, वसन्तस्य सुरभेर्वर्णनायां, कामु-
काध्यारोपेण कामुकाभेदारोपेण, वनस्थलीललनानामकृत्रिमवनभूमिरू-
पाणां नायिकानां, कुटिललोहितपलाशकलिकाभिर्वक्ररक्तकिंशुकाङ्कुरैर्हेतु-
भूतैरित्यर्थः, उत्प्रेक्षितानि, सम्भावितानि नवसंगमयोग्यनखक्षतानि नूतन-
प्रसङ्गोचितनखचिह्नानि, परमौचित्यचारुतामत्यन्तौचित्यप्रयुक्तसौन्दर्यं,
प्रतिपादयन्ति विबोधयन्ति ।