सामग्री पर जाएँ
सर्वकोश
औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

Aucitya Vicara Charcha of Kshemendra with Commentary

महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा

DevanagariHindipublished256 पृष्ठ

पृष्ठ 102, कुल 256 में से

संदर्भ में पढ़ें
पृष्ठ 102

४२ औचित्यविचारचर्चा
औचित्येन भ्राजिष्णुः शृङ्गारादिलक्षणो रसः सकलजनहृदयव्यापी
वसन्त इवाशोकमङ्कुरितं मनः करोति ।
औचित्येनानुरूप्येण भ्राजिष्णुः रोचिष्णुः, शृङ्गारादिलक्षणो रसः
शृङ्गारवीरकरुणादिनामधेयो रसः, सकलजनहृदयव्यापी निःशेषमान-
वान्तःसञ्चारी, वसन्तः सुरभिरशोकं वञ्जुलमिवाङ्कुरितं प्रफुल्लं, मन-
श्चित्तं, करोति विदधाति ।
अनुरूप कथन से सुशोभित, सम्पूर्ण जनमानसव्यापी शृङ्गार, वीर आदि रस
सहृदयों के चित्त में उसी तरह नवनवोन्मेष उत्पन्न कर देता है जैसे वसन्त ऋतु
अशोक की टहनियों में नये नये अंकुर प्रस्फुटित करता है ।
यथा श्रीहर्षस्य—
उद्दामोत्कलिकां विपाण्डुरुचं प्रारब्धजृम्भां क्षणा-
दायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः ।
अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं
पश्यन्कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम् ॥
रसौचित्यमुदाहर्तुमाह—यथा श्रीहर्षस्येति । उद्दामेति । उद्दामोत्क-
लिकां प्रादुर्भूतासंख्यकुड्मलां, पक्षान्तरे उत्कटोत्कण्ठाशालिनीम्, विपाण्डु-
रुचं विशेषतो धवलकान्ति, पक्षद्वयेऽपि समानमेतदेकत्र धवलपुष्पावृतत्वा-
दपरत्र प्रियवियोगेन वर्णव्यत्यासात्, प्रारब्धजृम्भां प्रारब्धा जृम्भावि-
कासो यस्यास्तां, पक्षान्तरे प्रारब्धा जृम्भा ( जम्हाई इति भाषा ) यया
ताम्, अविरलैः सततवृत्तैः, श्वसनोपगमैः पवनोदयैः, अन्यपक्षे निःश्वास-
निःसरणैः, आयासमान्दोलनं, पक्षान्तरे कामव्यथामातन्वतीं विस्तारयन्तीं,
समदनां मदनाख्यवृक्षालिङ्गितां, पक्षान्तरे कामशरजर्जरितामन्यां परां,
नारीं सुन्दरीमिव, इमां पुरोवर्तिनीम्, उद्यानलतां लीलोद्यानलतिकां,
पश्यन्नवलोकयन्नहमद्य, देव्या वासवदत्तायाः, मुखमाननं, कोपेन, क्रोधेन
विपाटला रक्तवर्णा, द्युतिः कान्तिर्यस्य तादृशं नायकस्य परकीयासम्पर्क-
सम्भावनापि नायिकां क्रोधान्वितां करोतीति नायिकास्वभावः, ध्रुवं निश्चयं,
करिष्यामि विधास्यामि । प्रेयस्--- क्रोधः प्रेयांसं नितरामानन्दयतीति
परिहासपटवो नायकाः कृत्रिमोपकरणेन कामिनीं कोपयन्तीति कामशास्-
विदां सम्मतिरिति भावः ।