सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 210, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 210

१६२ अश्ववैद्यके [२८ अध्यायः।
शिशिरे च वसन्ते च भुक्तवत्सु च तत्क्षणात् ।
वाजिनः श्लेष्मणः कोपः प्रभाते च प्रकीर्त्तितः ॥ ६ ॥
विपर्य्ययं निदाघस्य वातादीनां विचक्षणैः ।
हानिर्वाच्या सदा वैद्यैः शास्त्रमार्गानुसारिभिः ॥ ७ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे वातादि-
प्रकोपे सप्तविंशोऽध्यायः ॥ २७ ॥
अथाष्टाविंशोऽध्यायः।
व्याधिनिर्देशः ।
मुखरोगोऽक्षिरोगश्च शिरोरोगश्च¹ लिङ्गितः ।
कर्णरोगश्च कासश्च श्वासो हिक्का व्रणस्तथा ॥ १ ॥
सिंघाणः कोष्ठरोगश्च पदरोगो ज्वरस्तथा ।
अजीर्णञ्चातिसारश्च शूलोदावर्त्त एव च ॥ २ ॥
प्रस्कन्नः कृमिकोष्ठश्च मूत्ररुद्धस्त्वरुक् तथा ।
कुष्ठरोगश्च शोथश्च अण्डौनीतोदरार्शसः ॥ ३ ॥
१। लिङ्गितो नामाश्वानां गतिवैकल्यजनको रोगविशेषः। लगद्
खञ्जे । (खोड़ान) ।
२। सिंघाणं (सिक्नि) । तत्स्रावकनासारोगविशेषः ।
३। प्रस्कन्नोऽपि कुब्जताजनकरोगविशेषः। अस्य लक्षणादि
प्रस्कन्नचिकित्सिते द्रष्टव्यम् ।
१ । शिरोरुक्चायमङ्गिनः । खः ।