अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 108, कुल 522 में से
संदर्भ में पढ़ें६४ अश्ववैद्यके [८ अध्यायः ।
वस्तौ पानं¹ प्रदातव्यं तैलमेतद्विचक्षणैः ।
यावकञ्च ततो देयमन्नं दधिसमन्वितम् ॥ ९ ॥
एवंविधैः प्रयोगैश्च बन्ध्या भवति गर्भिणी ।
शीतपाक्यौ च² मेदे च ऋड्डे दे चिफलावचा ॥१०॥
क्वाथयेन्मतिमांस्तोये द्रोणे पादावशेषितम् ।
श्रुत्वा संस्राव्य वस्त्राच्च देयं तच घृताढ़कम् ॥ ११ ॥
वला चातिवला मेदे तथा क्षीरविदारिका ।
जीवकर्षभकौ चैव यष्टीमधुकशारिवे³ ॥ १२ ॥
९ । यावकं यवसम्बन्धि अन्नं यवापेक्षया पञ्चगुणे तोये पक्त्वा
दधिप्रस्थेन सह देयम् ॥
१० । शीतपाक्यो काकोलीक्षीरकाकोल्यो । मेदे मेदमहामेदे ।
एतदभावे अश्वगन्धाशारिवे देये । ऋद्धे वृद्धिऋद्धी । एतदभावे
वलामहावले ग्राह्ये । शीतपाक्यादीनां प्रत्येकं पलं । वारि ३२
प्रस्थमितं । वला वाट्यालकं । अतिवला पीतवाट्यालकं । क्षीरविदारी
शुक्लभूमिकुष्माण्डं । जीवकर्षभकौ जीवकः ऋषभकश्चेति द्वौ ।
एतदभावे गुडूची वंशलोचना च देया । शारिवा श्यामालता । एषां
प्रत्येकं पलं देयम् ।
१ । हस्तोपानं । खः ।
२ । शीतपाक्यो च मेदे दे दे मेदे त्रिफलापि च । खः ।
३ । यष्टीमधु च शारिवा । गः ।