अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 106, कुल 522 में से
संदर्भ में पढ़ें[ ६२ ]
त्रयोदशोऽध्यायः।
वन्ध्योपचारः।
अथातः संप्रवक्ष्यामि बन्ध्याया गर्भधारणम् ।
शालिहोत्रादिभिः प्रोक्तं यथापूर्वं तपोधनैः ॥ १ ॥
घृतेन वडवामादौ स्निग्धां पाणिन्तु¹ वेधयेत् ।
ततो निरुहयेदश्वां यथाशास्त्रं विचक्षणः ॥ २ ॥
ततोऽनुवासयेत् प्राज्ञः सप्तरात्रन्तु वाहयेत् ।
कुड़वं विल्वचूर्णस्य माक्षिकं कुड़वद्वयम् ॥ ३ ॥
क्षीराढ़कं भिषग्दत्वा तैलप्रस्थं विपाचयेत् ।
मधुना मूर्च्छितं कृत्वा वैद्यस्तत्पाययेद्धयीम्² ॥ ४ ॥
२। निरुहयेत् निरूहवस्तिं दापयेत् ।
३। अनुवासयेदनुवासनवस्तिं प्रयोजयेदित्यर्थः ॥
४। माक्षिकं मधु क्षीराढ़कं दुग्धप्रस्थचतुष्टयं। कुड़वः प्रस्थचतु-
र्थांशः। पाकप्रक्रिया यथा—आदौ तिलतैलस्य प्रस्थं मधुना मूर्च्छयित्वा
ततः कल्कभूतं विल्वत्वक्चूर्णं दत्वा क्षीराढ़केन सह क्षीरपाकविधानेन
पचेत् ॥ पानार्थं घृतप्रस्थांशो देयः ।
१। पीठौ। गः। २। वैद्यस्तद्वाहयेद्धयीम्। खः।