आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)
Aryabhatiya of Aryabhata with Hindi Commentary
आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा
पृष्ठ 41, कुल 134 में से
संदर्भ में पढ़ेंआर्यभटीये
युगरविभगणाः ख्युघृ शशि चयगियिडुशुछृॡ ङिशिबुण्ऌ
ष्षुप्राक्शने ढुङ्विध्व गुरु खिच्युभ कुज भद्लिकून्मुख भृगु-
बुध·सौराः ॥१॥
ष्टादशस्थानगतानां संख्यानां संज्ञा तुः-
«एकदशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमशः।
अर्बुदमब्जं खर्बनिखर्वमहापद्मशङ्खवस्तस्मात् ॥
जलधिश्चान्त्यं मध्यं परार्द्धमिति दशगुणोत्तरां संज्ञाः»
इत्यनेन वेद्या ॥ युगरविभगणाः । चतुर्युगे रवेर्भगणाः ख्युघृ इति । उकारयु-
तखकारेणायुतद्वयमुक्तम् । उकारयुतयकारेण लक्षत्रयम् एवं सर्वत्र हल्द्वये एक एव
स्वर उभयत्र सम्बध्यते । ऋकारयुतघकारेण प्रयुतचतुष्कम् । एवमनेन न्यायेन
सर्वत्र संख्या वेद्या ॥ शशि । शशिन इत्यर्थः । सूत्रे ह्यविभक्तिकोऽपि प्रयोग-
स्स्यात् । चयगियिडुशुछृॡ इति युगभगणाश्शशिनः । च षट् । य त्रिंशत् । शि
त्रिशतम् । यि त्रिसहस्रम् । ङु अयुतपञ्चकम् । शु लक्षसप्तकम् । छृ प्रयुतसप्तकम् । लॄ
कोटिपञ्चकम् । इति ॥ कु भूमेरित्यर्थः । ङिशिबुण्ऌष्वृ इति भगणाः । प्राक्
प्राग्गत्या सम्भूता भगणा इत्यर्थः । ष्लॄ पञ्चदशार्बुदम् । नवमस्था ने पञ्चदशम-
स्थाने एकडचेत्यर्थः। खृ प्रयुतद्वयम् । ष्टृ कोट्यष्टकम् । भूमेर्यत्प्राङ् मुखभ्रमणं
तस्य चतुर्युगे संभूता संख्यात्रोक्ता । भूमिश्चांचलेति प्रसिद्धा तस्याःकथमत्र भ्र-
मणकथनम्। उच्यते । प्रवहाक्षेपात्पश्चिमाभिमुखं भ्रमतो नक्षत्रमण्डलस्य मि-
थ्याज्ञानवशाद्भूमेर्भ्रमणं प्रतीयते तदङ्गीकृत्येह भूमिभ्रमणमुक्तम् । वस्तुतस्तु
न भूमेर्भ्रमणमस्ति । अतो नक्षत्रमण्डलस्य भ्रमणप्रदर्शनपरमत्र भूभ्रमणकथ-
नमितिवेद्यम् । वक्ष्यति च मिथ्याज्ञानम्
अनुलोमगतिर्नौस्थः पश्यत्यचलं विलोमगं यद्वत् ।
अचलानि भानि समपश्चिमगानि लङ्कायाम् ॥
इति । अंहोरात्रेण हि भूगोलस्य समस्तभागभ्रमणादद्धैव रवेर्दिनगतितुल्यभागो
ऽपि भ्रमति । अतो रवेर्यु गभगणायुतभूदिवसैस्तुल्या नक्षत्रमण्डलस्य भ्रमणनि-
र्तिर्भवति । सैवात्रोक्ता स्यात् ॥ शनि ढुङ्विध्व इति । शनेर्यु गभगणाः । ढु-
अयुतानाञ्चतुर्दश । ङि पञ्चशतम् । वि षट्सहस्रम् । घ चत्वारि । व षष्ठिः ॥