सामग्री पर जाएँ
सर्वकोश
आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)

आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)

Aryabhatiya of Aryabhata with Hindi Commentary

आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा

DevanagariSanskritpublished134 पृष्ठ

पृष्ठ 121, कुल 134 में से

संदर्भ में पढ़ें
पृष्ठ 121

आर्यभटीये- ८५
स्वाहोरात्रेष्टज्यां क्षितिजादवलम्बकाहतांकृत्वा ।
विष्कम्भार्धविभक्ते दिनस्य गतशेषयोश्शसङ्कुः ॥२८ ॥
क्षितिजात् क्षितिजमण्डलादुत्पन्नां स्वाहोरात्रेष्टज्यां पूर्वाह्ने दिनस्य गत-
घटिकाभिरानीतामपराह्ने दिनस्य शेषघटिकाभिरानीतामवलम्बकेनाहतां
कृत्वा पुनस्तस्मिन् राशौ विष्कम्भार्धेन विभक्ते सति शङ्कुर्भवति । इष्टकाले म-
हाशङ्कुर्भवति । दिनस्य गतशेषयोश्शङ्कुः । अभीष्टदिनगतकालेऽभीष्टदिनैष्य-
काले च शङ्कुर्भवति । दिनस्य गतशेषयोस्स्वाहोरात्रेष्टज्यामिति वा सम्बन्धः ।
अत्रैवं त्रैराशिकम् । यदि त्रिज्यामुल्यस्वाहोरात्रेष्टज्यया लम्बकतुल्यश्शङ्कुर्लभ्यते
तदेष्टस्वाहोरात्रेष्टज्यया कश्शङ्कुरितीष्टशङ्कुलब्धिः । विषुवद्दिनमध्याह्ने हि
त्रिज्या स्वाहोरात्रेष्टज्या । अवलम्बकशङ्कुः । स्वाहोरात्रेष्टज्यानयनन्तु । उत्तर
गोले गतगन्तव्यासुभ्यश्चरदलादूनविशोध्य जीवामादाय स्वाहोरात्रार्धेन निहत्य
त्रिज्यया विभज्य लब्धे भूज्यां प्रक्षिपेत् । सा क्षितिजादुत्पन्ना स्वाहोरात्रेष्टज्या
भवति । दक्षिणगोले तु चरदलं प्रक्षेपभूज्यायाश्शोधनम् । इत्येवं विशेषः । शङ्-
कुवर्गं त्रिज्यावर्गाद्विशोध्य शिष्टस्य मूलं त्स्य शङ्कोश्छाया भवति । शङ्कुच्छा-
ययोर्भुजाकोटित्वादाभ्यां त्रैराशिकादिष्टच्छाया साध्या । छायाया नाडिकाकर-
णन्तु । द्वादशाङ्गुलशङ्कुना त्रिज्यां निहत्येष्टच्छायाकर्णेन विभज्य लब्धं महा-
शङ्कुर्भवति । तस्माच्छङ्कुविधिव्यत्ययकर्मणा गतगन्तव्यनाडिका भवन्ति ॥
शङ्कग्रानयनमाह ।
भा०:-क्षितिज मण्डल उत्पन्न स्वाहोरात्रेष्टज्या को पूर्वाह्न में दिन के
गत घटिका द्वारा लाये अवलम्बक से गुणन कर, पुनः उस राशि में व्या-
सार्द्ध से भाग देने पर दिन के गत और गम्य का शङ्कु होगा । अभीष्ट दिन
के गत काल में और अभीष्ट दिन के गम्य काल में शङ्कु होता है ॥ २८ ॥
विषुवज्जीवागुंणितस्स्वेष्टश्शङ्कुस्स्वलम्बकेन हृतः ।
अस्तमयोदयसूत्राद् दक्षिणतस्सूर्यशङ्कग्रम् ॥ २९॥
स्वेष्टं महाशङ्कं स्वदेशविषुवज्जया निहत्य स्वदेशलम्बकेन विभजेत् ।
तत्र लब्धमस्तोद्यसूत्राद्दक्षिणतस्सूर्यस्य शङ्कग्रं भवति । नित्यदक्षिण शङ्कग्रं
भवति गोलस्योत्तरन्नतत्वात् । सूर्यग्रहणं चन्द्रस्याप्युपलक्षणम् । अत्रैवं त्रैरा-
शिकम् । यद्यवलम्बककोट्याक्षज्या भुजा तदा शङ्कुकोट्या का भुजेति । उभयत्र
क्षेत्रस्याक्षनिमित्तत्वात्त्रैराशिकं घटते । अथवा। लम्बकशङ्कोरक्षज्या भुजा तदेष्ट-
शङ्कोः का भुजेति त्रैराशिकम् ॥ अथार्काग्रानयनमाह ।