सामग्री पर जाएँ
सर्वकोश
आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)

आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)

Aryabhatiya of Aryabhata with Hindi Commentary

आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा

DevanagariSanskritpublished134 पृष्ठ

पृष्ठ 122, कुल 134 में से

संदर्भ में पढ़ें
पृष्ठ 122

८६ गीतिकापादः ॥
भा०:—स्वेष्ट महाशङ्कु को स्वदेश विषुवज्ज्या से गुणनकर गुणनफल में
स्वदेश लम्बक का भाग देवे, भागफल अस्तोदय सूत्र से दक्षिण से सूर्य्य का
शङ्क्यग्र होता है । नित्य ही दक्षिण शङ्क्यग्र होता है, गोल के उत्तर उन्नत
होने से । सूर्य्य ग्रहण कहने से चन्द्रग्रहण का भी उपलक्षण जानना ॥ २९ ॥
परमापक्रमजीवामिष्टज्यार्धाहतां ततोविभजेत् ।
ज्यालम्बकेन लब्धार्काग्रा पूर्वापरक्षितिजे ॥ ३० ॥
परमापक्रमजीवामिष्टज्यया सायनार्कस्य भुजज्यया निहतां कृत्वा ततो
ज्यालम्बकेन लम्बकाख्यजीवया विभजेत् । अवलम्बकेनेत्येवार्थः । तत्र लब्धार्काग्रा
भवति । पूर्वापरे क्षितिजे। पूर्वक्षितिजे यत्र रविरुदेति। अपरक्षितिजे यत्र चास्तं
गच्छति । तत्स्थानद्वयस्य पूर्वापरस्वस्तिकस्य चान्तरालजाता क्षितिजमण्डलगता
जीवार्काग्रेत्यर्थः । अत्रैवं त्रैराशिकम् । यदि त्रिज्यया परमापक्रमो लभ्यते तदे-
ष्टज्यया कियानपक्रम इतीष्टक्रान्तिलब्धिः ।, यद्यवलम्बकोटिकस्य क्षेत्रस्य त्रिज्या
कर्णस्तदेष्टक्रान्तिकस्य क्षेत्रस्य कः कर्णः, इत्यर्काग्रालब्धिः । प्रथमत्रैराशिके त्रिज्या
हारः । द्वितीये त्रिज्या गुणाकारः । अतस्तदुभयं विना कर्म क्रियते ॥ अर्कस्य
सममण्डलप्रवेशकाले शङ्कानयनमाह ।
भा०:--परमापक्रम जीवा को सायन सूर्य्य की भुजज्या से गुणनकर गु-
णनफल में लम्बक नामक जीवा का भागदेवे, भागफल अर्काग्रा होता है ।
पूर्वापर क्षितिज में जहां पर सूर्य्योदय होता एवं अपर क्षितिज में जहां सू-
र्य्यास्त होता है । अर्थात् उन दोनों स्थान से पूर्वापर स्वस्तिक के बीच से उ-
त्पन्न क्षितिज मण्डलगत्त जीवा अर्काग्रा होती है ॥ ३० ॥
सा विषुवज्ज्योना चेद्विषुवदुदग्लम्बकेन सङ्गुणिता।
विषुवज्ज्र्यया विभक्ता लब्धः पूर्वापरे शङ्कुः ॥३१॥
विषुवदुदक् विषुमण्डलादुद्गता । उत्तरगोलभवा सा.। अर्काग्रा । विषु-
वज्ज्योनाचेत् । विषुवज्ज्र्योनया क्रान्त्या साधिता चेदित्यर्थः । विषुवज्ज्र्योन-
क्रान्तिसिद्धासोद्गताकार्काग्रा लम्बकेन गुणिता विषुवज्ज्र्यया विभक्ता कार्या।
तत्र लब्धं पूर्वापरसूत्रगतेऽर्के शङ् कुर्भवति। सममण्डलशङ् कुरित्यर्थः । 'सममण्डल
गते ह्यर्केऽर्काग्रातुलितं शङ् कग्रम् । तत्रैवं त्रैराशिकम् । यद्यक्षतुल्येन शङ्कग्रेण
लम्बकतुल्यश्शङ् कुर्लभ्यते तदार्काग्रातुल्येन शङ्कग्रेण कश्शङ्कुरिति सममण्डल
शङ्कुलब्धिः ॥ मध्याह्नशङ्कुं तच्छायाञ्चाह ।