आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 56, कुल 399 में से
संदर्भ में पढ़ेंस्नातकधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ४५
यथा ब्रह्मचारिणो वृत्तम् ॥ १ ॥
समावृत्तस्येति(१) वर्तते । समावृत्तस्य (२)ब्रह्मचारिणोऽकृतविवाहस्य
यथा वृत्तं वर्तनं तथा वक्ष्यामः ॥ १ ॥
माल्यपालिप्तमुख उपलिप्तकेशश्मश्रुरक्तोऽभ्यक्तो वेष्टि-
त्युपवेष्टिती काञ्चुक्युपानही पादुकी ॥ २ ॥
माली मालावान् । आलिप्तमुखश्चन्दनादिना । मुखग्रहणमुपलक्षणम् ।
(३)मुखमग्रे ब्राह्मणोऽनुलिम्पेदि'त्याश्वलायनवचनात्। सुगन्धिभिराल-
कादिभिर्द्रव्यैरुपलिप्तानि संस्कृतानि केशश्मश्रूणि यस्य सः उपलिप्तकेश
श्मश्रुः। अक्त अञ्जनेनाऽक्ष्णोः। अभ्यक्त तैलेन। वेष्टिती वेष्टितशिराः। कटि-
प्रदेशो द्वितीयेन वाससा वेष्टितो यस्य सः उपवेष्टिती । कञ्चुकश्चोपानच्च
कञ्चुकोपानहम् । (४)द्वन्द्वाच्चुद्दषहान्तादित्युच् समासान्तः । तद-
स्यास्तीति कञ्चुकोपानही। द्वन्द्वोपतामगह्यर्वाप्राणिस्थादिनिप्रत्ययः। प्रसिद्धे
पाठे कञ्चुकमेव काञ्चुकं तद्वान् काञ्चुकी । उपानद्वाञ्जुपा नही । व्रीह्यादि
त्वादिनिः। पादुके दारुमये पादरक्षणे तद्वान् पादुकी ॥ २ ॥
उदाचारेषु चास्यैतानि न कुर्यात्कारयेद्वा ॥ ३ ॥
अस्याऽऽचार्यादेः पुत्रान्तस्य उदाचारेषु दृष्टिगोचरेषु देशेषु एतानि मा-
ल्यादीनि न कुर्यात्कारयेद्वा ॥ ३ ॥
स्वैरिकर्मसु च ॥ ४ ॥
एतानि न कुर्यात् कारयेद्वा ॥ ४ ॥
तत्रोदाहरणम्—
यथा दन्तप्रक्षालनोत्साधनावलेखनानीति ॥ ५ ॥
दन्तप्रक्षालनं दन्तधावनम् । उत्सादनमुद्वर्तनम् । अवलेखनं कङ्कतादिना
केशानां विभागेनाऽवस्थापनम् । इतिशब्दः प्रदर्शनार्थः । तेन स्नानभो-
जनमूत्रोच्चारादिष्वपि प्रतिषेधः ॥ ५ ॥
तद्द्रव्याणां च न कथयेदात्मसंयोगेनाऽऽचार्यः ॥ ६ ॥
१. अनुवर्तत इति ख. पु. २. कृतविवाहस्य' इति क पु ३. आश्व. गृ. ३. ७ १०.
४. पा. सू. ५. ४. १०६. चवर्गान्तात् वहान्ताच द्वन्द्वाद्टच् स्यात् समाहारे इति
सूत्रार्थः ।