आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 55, कुल 399 में से
संदर्भ में पढ़ें४४ आपस्तम्बधर्मसूत्रे [ (प. २.) क. ७
मविशेषेण ? अन्यत्रोपसङ्ग्रहणादुच्छिष्टाशनाच्च, पादोपसङ्ग्रहणमुच्छिष्टाशनं
च इत्येतदुभयं वर्जयित्वा । अत्र मनुः—
(१)‘गुरुवद्गुरुपत्नीषु युवतीर्नाभिवादयेत् ।’ इति ।
गौतमस्तु, (२)‘तद्भार्यापुत्रेषु चैवं नोच्छिष्टाशनस्नापनप्रसाधनपा-
दप्रक्षालनोन्मर्दनोपसङ्ग्रहणानि’ इति । ‘दार’ इत्येकवचनं छान्दसम्॥२७॥
तथा समादिष्टेऽध्यापयति ॥ २८ ॥
य आचार्येण समादिष्टो नियुक्तोऽध्यापयति तस्मिन्नाचार्यदारवद्वृत्तिः ।
‘अध्यापयती’ति वर्तमाननिर्देशा(३)द्यावदध्यापनमेवायमतिदेशः ॥२८॥
वृद्धतरे च सब्रह्मचारिणि ॥ २९ ॥
अध्यापयतीति नानुवर्तते । तरनिर्देशात् ज्ञानवयोभ्यामुभाभ्यां
वृद्धो गृह्यते । सब्रह्मचारी सहाध्यायी, समाने ब्रह्मणि व्रत चरतीति । त-
स्मिन्नप्याचार्यदारवद्वृत्तिः ।
‘आचार्यात्पादमादत्ते पादं शिष्यः स्वमेधया ।
पादं सब्रह्मचारिभ्यः पादः कालेन पच्यते ॥’
इत्यध्ययने उपयोगसम्भवात् ॥ २९ ॥
उच्छिष्टाशनवर्जमाचार्यवदाचार्यपुत्रे वृत्तिः ॥ ३० ॥
‘उच्छिष्टाशनवर्ज’मिति वचनादुपसङ्ग्रहणं भवति । एतच्च ज्ञा-
नवयोभ्यामुभाभ्यां वृद्धे । तदर्थं वृद्धतर इत्यनुवर्तते । गौतमीयस्तूपस-
ङ्ग्रहणप्रतिषेधो वृद्धतरादन्यविषयः ॥ ३० ॥
समावृत्तस्याप्येतदेव सामयाचारिकमेतेषु ॥ ३१ ॥
कृतसमावर्तनस्याप्येतदेवानन्तरोक्तम् । एतेष्वाचार्यादिषु पुत्रान्तेषु
सामयाचारिकं समयाचारप्राप्तं वृत्तमान्तात् । समादिष्टे त्वध्यापयती-
ति(२८) विशेष उक्तः ॥ ३१ ॥
॥ इत्यापस्तम्बीयधर्मसूत्रवृत्तावुज्ज्वलायां सप्तमी कण्डिका ॥
१. मनु. स्मृ २. २१२. गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयो. । इति मुद्रितमनु-
स्मृतिपाठः ।
२. गौ. ध. २ ३१. ३२ ३. यावदध्यापनं तावदेवातिदेशः इति. ख. पु.