सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 49, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 49

३८ आपस्तम्बधर्मसूत्रे [ (प्र. २.) क. ६.
बहवस्तु शिष्या यथावकाशमुपसीदेयुः ॥ २५ ॥
तिष्ठति च नाऽऽसीताऽनासनयोगविहिते ॥ २६ ॥
आसनयोग आसनकल्पना । आसनयोगेन विहितस्सम्भावित आस-
नयोगविहितः । आसनयोगेनाऽसम्भाविते आचार्ये तिष्ठति सति स्वयं
नाऽऽसीत ॥ २६ ॥
आसीने च न संविशेत् ॥ २७ ॥
(१)'अशयनयोगविहिते' इति पूर्वानुसारेण गम्यते । शयनयोगेना-
सम्भावित आचार्ये आसीने स्वयं न संविशेत् न शयीत ॥ २७ ॥
चेष्टति च चिकीर्षंस्तच्छक्तिविषये ॥ २८ ॥
व्यत्ययेन परस्मैपदम् । आचार्ये चेष्टति सति स्वयमपि तच्चिकीर्षन्
स्यात् । किमविशेषेण, ? शक्तिविषये । यद्याचार्येण क्रियमाणमात्मनश्श-
क्तेर्विषयो भवति । 'चिकीर्ष' न्निति सन्प्रयोगादिच्छामेव प्रदर्शयेत् ना
च्छिद्य कुर्यात् । प्रदर्शितायां त्विच्छायामाचार्यश्चेदनुजानीयात् , कु
र्यात् । अशक्तिविषये तु नेच्छापि प्रदर्शयितव्या । चिकीर्षेदिति युक्तः
पाठः ॥ २८ ॥
न चास्य सकाशेऽन्वक्स्थानिन उप-
सङ्गृह्णीयात् ॥ २९ ॥
आचार्यव्यतिरिक्ता गुरवोऽन्वक्स्थानिन इति स्मार्त्तो व्यवहारः । आ-
चार्यः श्रेष्ठो गुरूणाम् । तमपेक्ष्यान्वक्स्थानं पदमेषामिति कृत्वा । आचार्य
स्य सन्निधौ अन्वक्स्थानिनं नोपसङ्गृह्णीयात् ॥ २९ ॥
गोत्रेण वा कीर्तयेत् ॥ ३० ॥
न चैनमन्वक्स्थानिनं गोत्रेण अभिजनकुलादिना वा कीर्तयेत् न स्तुवीत
भार्गवोऽयं महाकुलप्रसूत इति ॥ ३० ॥
न चैनं प्रत्युत्तिष्ठेदनुत्तिष्ठेद्वा(२)पि चेत्तस्य -
गुरुः स्यात् ॥ ३१ ॥
प्रत्युत्थानमप्यस्य न कर्तव्यमाचार्यस्य सकाशे । यदा पुनरसावा-
१. आसनयोग इति क० पु० २. अपि चेत्यादि सूत्रान्तरं. ख. च. पु ।