आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 50, कुल 399 में से
संदर्भ में पढ़ेंब्रह्मचारिधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ३९
चार्यसकाशे त्वासित्वा गमनायोत्तिष्ठति तदाऽनुत्थानमपि न कर्तव्य-
म् । यद्यप्यसौ तस्य(१)आचार्यस्य मातुलादिः गुरुः स्यात् । (२)'आचार्य-
प्राचार्यसन्निपात' इति वक्ष्यति। तेनैव न्यायेन(३)मातुलादिष्वपि प्रसङ्गे
इदमुक्तम् ॥ ३१ ॥
देशाच्चासनाच्च संसर्पेत् ॥ ३२ ॥
किं तु देशादासनाच्च संसर्पत्तस्य सम्मानार्थम् ॥ ३२ ॥
नाम्ना तदन्तेवासिनं गुरुमप्यात्मन इत्येके ॥ ३३ ॥
तस्याचार्यस्यान्तेवासिनं नाम्नैव कीर्तयेत् 'यज्ञशर्मन्नि'ति । यद्यप्यसा-
वात्मनो गुरुर्भवति इत्येवमेके मन्यन्ते । स्वपक्षस्तु गुरोर्नामग्रहणं न
कर्तव्यमिति ॥ ३३ ॥
यस्मिंस्त्वनाचार्यसम्बन्धाद्गौरवं वृत्तिस्त-
स्मिन्नन्वक्स्थानीयेऽप्याचार्यस्य ॥ ३४ ॥
यस्मिंस्तु पुरुषे शिष्याचार्यभावमन्तरेणापि विद्याचारित्रादिना
लौकिकानां गौरवं तस्मिन्नन्वक्स्थानीये ऽप्याचार्ये या वृत्तिस्सा कर्तव्या।
अन्वक्स्थानीयोऽप्यनन्वक्स्थानीय्येव ॥ ३४ ॥
भुक्त्वा चास्य सकाशे नानुत्थायोच्छिष्टं
प्रयच्छेत् ॥ ३५ ॥
आचार्यस्य भुञ्जानस्याऽभुञ्जानस्य वा सकाशे भुक्त्वा अनूत्थाय छान्दसो
दीर्घः । उत्थानमकृत्वा उच्छिष्टं न प्रयच्छेत् (४)'आर्याय वा पर्यवदध्या'-
दिति यद्विहितम् ॥ ३५ ॥
आचामेद्वा ॥ ३६ ॥
आचमनमप्यनुत्थाय न कुर्यात् ॥ ३६ ॥
किं करवाणीत्यामन्त्र्य ॥ ३७ ॥
आचम्य किं करवाणीति गुरुमामन्त्र्य ॥ ३७ ॥
इत्यापस्तम्बधर्मसूत्रे प्रथमप्रश्ने षष्ठी कण्डिका ॥
१. माणवकस्य इति क. पु. २. आप० ध० १. ८. १९ पूजां वक्ष्यतीति ख० पु०
३. मातुलादिप्रसङ्गे इति क० पु० ४. आप० ध० १. ३. ४०.