सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 47, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 47

३६ आपस्तम्बधर्मसूत्रे [ (प.२.)क.६.
यदा त्वाचार्यस्तिष्ठन् ब्रूते तदा तमनूत्थाय प्रतिब्रूयात् । उत्तरे द्वे सूत्रे
स्पष्टार्थे ॥ ७ ॥
गच्छन्तमनुगच्छेत् ॥ ८ ॥ धावन्तमनुधावेत् ॥ ९ ॥
न सोपानद्वेष्टितशिरा अवहितपाणिर्वासीदेत् ॥ १० ॥
उत्तरोपानत्प्रतिषेधा'न सोपान'दित्यनुवादः 'अध्वापन्नस्त्वि'ति
प्रतिप्रसोतुम् । आचार्यं न सोपानत्क आसीदेत् । नापि वेष्टितशिराः ।
अवहितपाणि. दात्रादिहस्तः एवम्भूतोऽपि नासीदेत् ॥ ८-१० ॥
अध्वापन्नस्तु कर्मयुक्तो वाऽऽसीदेत् ॥ ११ ॥
अध्वानं प्राप्तोऽध्वापन्नः कर्मणि दात्रादिसाध्ये प्रवृत्तः कर्मयुक्तः एवं-
भूतस्तु सोपानत्कोऽप्यासीदेत् ॥ ११ ॥
न चेदुपसीदेत् ॥ १२ ॥
(१) न चेदाचार्यस्समीपे, उपसीदेत् उपविशेत् । यदि तूपविशेदध्वा-
पन्नः कर्मयुक्तो वा तदोपानत्प्रभृतीनि विहायोपविशेत् ॥ १२ ॥
देवमिवाचार्यमुपासीताऽविकथयन्नविमना
वाचं शुश्रूषमाणोऽस्य ॥ १३ ॥
यो यं देवं भजते स तद्भावनया तमिवाऽऽचार्यमुपासीत । अविकथयन्
(२)व्यर्थां कथामकुर्वन् । अविमनाः अविक्षिप्तमनाः । अस्याऽऽचार्यस्य वाचं
शुश्रूषमाणः ॥ १३ ॥
अनुपस्थकृतः ॥ १४ ॥
(३)उपस्थकरणं प्रसिद्धम् । तत्कृत्वा नोपासीत ॥ १४ ॥
अनुवाति(४) वाते वीतः ॥ १५ ॥
वाते अनुवाति सति वीतः विपर्ययेणेतः उपासीत । प्रतिवातं तु वक्ष्यमा-
णेन प्रतिषिध्यते । मनुरप्याह-
(५)'प्रतिवातेऽनुवाते च नासीत गुरुणा सहे'ति ॥ १५ ॥
१. न चेदाचार्यसमीपे उपसीदेत् उपविशेत् इति ख, पु.
२. व्यर्था कथा विकथा तामकुर्वन् इति. ख. पु.
३. आकुञ्चितस्य सव्यजानुनउपरिदक्षिणं पादं प्रक्षिप्योपवेशनमुपस्थकरणम् ।
४. 'वाते' इति नास्ति ख. पु. ५. मनु. स्मृ. २.२०३.