सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 46, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 46

ब्रह्मचारिनियमः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ३५
मनसा चाऽनध्याये ॥ २५ ॥
अनध्यायकाले मनसा च अध्यायादनन्तरः स्यात् । सन्देहस्थानानि
मनसा निरूपयेत् । अध्ययनविषयामेव चिन्तां कुर्यात् ॥ २५ ॥
आहूताध्यायी च स्यात् ॥ २६ ॥
आचार्येणाहूतस्सन्नधीयीत, नाध्यापने स्वयं प्रवर्तयेत् ॥ २६ ॥
॥ इत्यापस्तम्बीये धर्मसूत्रे पञ्चमी कण्डिका ॥
सदा निशायां गुरुं संवेशयेत्तस्य पादौ
प्रक्षाल्य संवाह्य ॥ १ ॥
सदा प्रत्यहं निशायां अतिक्रान्ते प्रदोषे गुरु संवेशयेत् । कथम् ? तस्य
गुरोः पादौ प्रक्षाल्य संवाह्य च । संवाहनं मर्दनम् ॥ १ ॥
अनुज्ञातः संविशेत् ॥ २ ॥
(१)गुरुणाऽनुज्ञातस्तु स्वयं संविशेत् शयीत ॥ २ ॥
न चैनमभिप्रसारयीत ॥ ३ ॥
एनमाचार्यं प्रति पादौ न प्रसारयेत् ॥ ३ ॥
न खट्वायाँ सतोऽभिप्रसारणमस्तीत्येके ॥ ४ ॥
यदा तु गुरुः खट्वाया शेते तदा तं प्रति पादयोः प्रसारणं न दोषा-
येत्येके मन्यन्ते, स्वपक्षस्तु तत्रापि दोष इति ॥ ४ ॥
न चाऽस्य सकाशे संविष्टो भाषेत ॥ ५ ॥
अस्याऽऽचार्यस्य सकाशे स्वयं संविष्ट. शयानो न भाषेत। कार्यावेदनादावु-
त्त्थायैव भाषेत ॥ ५ ॥
अभिभाषितस्त्वासीनः प्रतिब्रूयात् ॥ ६ ॥
आचार्येणा(२)भिभाषितस्त्वासीनः प्रतिब्रूयात् । एतदाचार्ये आसीने शया-
ने वा ॥ ६ ॥
अनूत्थाय तिष्ठन्तम् ॥ ७ ॥
१. पश्चाद्गुरुणा इति ख. पु २. अभिभाषिणस्सन् इति ख. पु.