सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 245, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 245

२३४ आपस्तम्बधर्मसूत्रे [(प.६)क.१४.
इतरेभ्यो गृह्णीयादिति
विभागादूर्ध्वं पित्रोर्जीवनाभावे पुत्रभागेभ्यो ग्राह्यमित्युक्तं भवति ।
इति जीवद्विभागः ॥ १ ॥
अथ मृते कुटुम्बिनि तद्धनस्य गतिमाह-
पुत्राभावे यः प्रत्यासन्नः सपिण्डः ॥ २ ॥
'पुत्राभावे' इति वचनात् सत्सु पुत्रेषु त एव गृह्णीयुरविशेषात्स-
मम् । तत्र नारदीये विशेषः-
(१)'यच्छिष्टं प्रीतिदायेभ्यो दत्त्वर्णं पैतृकं च यत् ।
भ्रातृभिस्तद्विभक्तव्यमृणी स्यादन्यथा पिता ॥' इति ॥
कात्यायनस्तु-
(२)'भ्रात्रा पितृव्यमातृभ्यां कुटुम्बार्थमृणं कृतम् ।
विभागकाले देयं तद्रिक्थिभिस्सर्वमेव तु ॥ इति ॥
अत्र याज्ञवल्क्यः--
(३)'पितुरूर्ध्वं विभजतां माताऽप्यंशं समं हरे' दिति ।
तदत्र नोक्तं पुत्रैरेव सह वृत्तिरस्या इति ।
तथा च मनुः-
(४)'पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रस्तु स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति ॥' इति ।
एवं मातुरप्यभावे तद्धनं भर्तृकुललब्धं स्वयमर्जितं च तत्पुत्रा अ
प्रत्ताश्च दुहितरस्समं गृह्णीयुः ।
(५)स्त्रीधनं तदपत्यानां दुहिता च तदंशिनी ।
अप्रत्ता चेत्सम्मूढा तु लभते (६)मानमात्रकम् ॥इति बृहस्पतिः।
पितृकुललब्धं चाऽप्रत्ता एव दुहितरः ।
(७)मातुस्तु यौतकं यत्स्यात् कुमारीभाग एव सः ।' इति मनुः ।
अथाऽप्रत्ता दुहितरः पुत्राश्च जननी तदा ।
(८)जनन्यां संस्थितायां तु समं सर्वे सहोदराः ॥
भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः । इति मानवमेव ।
१ ना. स्मृ. १३ ३२. २ कात्यायनीयस्मृतौ नास्ति.
३. या स्मृ २.१२३. ४. म.स्मृ ९. ३. बौ. ध. २. २. ४६.
५. मुद्रितबृहस्पतिस्मृतौ नेदं वचनमुपलभ्यते । परन्तु 'जनन्यां संस्थितायां' ( ९
१९२.) इतिश्लोकव्याख्यानावसरे कुल्लूकभट्टेनेदं वचन बृहस्पतिवचनत्वेनैवोदाहृतम् ।
६. सा न मातृकम् , इति ड. पु ७. म. स्मृ. ९. १३१ ८. म. स्मृ. ९. १९२.