सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 222, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 222

अतिथिपूजा ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २१९
श्वो भूते यथामानसं तर्पयित्वा संसाधयेत् ॥ १ ॥
अपरेद्युस्तमन्विष्य यथामानसं यथेच्छं तर्पयित्वा संसाधयेत् गच्छन्तम-
नुव्रजेत् ॥ १ ॥
आ कुत इत्यत आह—
यानवन्तमा यानात् ॥ २ ॥
स चेदतिथिर्यानवान् भवति, तमा तस्याऽऽरोहणादनुव्रजेत् ॥
यावन्नाऽनुजानीयादितरः ॥ ३ ॥
इतरो यानरहितो यावन्नाऽनुजानीयात् गच्छेति, तं तावदनुव्रजेत् ॥३॥
अप्रतीभायां सीम्नो निवर्तेत ॥ ४ ॥
यदि तस्याऽन्यपरतयाऽनुज्ञायां प्रतीभा बुद्धिर्न जायते, ततस्सीम्नि प्राप्ता-
यां ततो निवर्तेत । प्रतेर्दीर्घश्छान्दसः । 'संसाधये' दित्यादि सर्वातिथि-
साधारणम् । न निराकृतमात्रविषयम् ॥ ४ ॥
सर्वान्वैश्वदेवे भागिनः कुर्वीता श्वचण्डालेभ्यः ॥५॥
वैश्वदेवान्ते भोजनार्थमुपस्थितान् सर्वानैव भागिन. कुर्वीताऽऽश्वचण्डा-
लेभ्यः । अभिविधावाकारः । तेभ्योऽपि किञ्चिद्देयम् । तथा च मनुः—
(१)'शूनां च पतितानां च श्वपचां पापरोगिणाम् ।
वयसां च क्रिमीणां च शनकैर्निर्वपेद्भुवि ॥ इति ॥ ५ ॥
नाऽनर्हेभ्यो दद्यादित्येके ॥ ६ ॥
अनर्हेभ्यश्चण्डालादिभ्यो न दद्यादित्येके मन्यन्ते । तत्र दानेऽभ्युदयः ।
अदाने न प्रत्यवायः ॥ ६ ॥
उपेतः स्त्रीणामनुपेतस्य चोच्छिष्टं वर्जयेत् ॥ ७ ॥
उपेतः कृतोपनयनोऽसमावृत्तः । स स्त्रीणामनुपेतस्य चोच्छिष्टं वर्जयेत न
भुञ्जीत । एवं सति समावृत्तस्योच्छिष्टं भुञ्जानस्य न दोषः स्यात् । एवं
तर्हि उपेत आन्तात् कृतदारोऽकृतदारश्च स्त्रीणामनुपेतस्य चोच्छिष्टं व-
र्जयेत् । एवमप्युपेतस्य यस्य कस्यचिदपि यदुच्छिष्टं तद्भोजने न दोषः
स्यात् । पितुर्ज्येष्ठस्य च भ्रातुरुच्छिष्टं भोक्तव्यम्-(१. ४ १९) इत्येतन्निय-
मार्थं भविष्यति-पितुरेव भ्रातुरेवेति। यद्येवं सूत्रमेवेदमनर्थकम्।तस्मादेव
१. म. स्मृ. ३. ९२.