आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 221, कुल 399 में से
संदर्भ में पढ़ें२१० आपस्तम्बधर्मसूत्रे [ (प.४.) क.८.
उक्त उपकारः, अत्र चोदयति-
शब्दार्थारम्भणानां तु कर्मणां समाम्नायसमाप्तौ
वेदशब्दस्तत्र सङ्ख्या विप्रतिषिद्धा ॥ १२ ॥
शब्दार्थतया यान्यारभ्यन्ते न प्रत्यक्षादिप्रमाणगोचरतया, तानि
शब्दार्थारम्भणानि कर्माणि वैदिकान्यग्निहोत्रादीनि । तेषां समाम्नाय उप-
देशः । तस्य समाप्तौ स यावता ग्रन्थजातेन समाप्तोऽनुष्ठानपर्यन्तो भ-
वति, तत्र वेदशब्दो वर्तते । वेदयति धर्मं विदन्त्यनेनेति वा धर्ममिति ।
न च मन्त्रब्राह्मणमात्रेणाऽनुष्ठानपर्यन्त उपदेशो भवति । किं तु कल्प-
सूत्रैरपि सह । ततश्च तेषामपि वेदस्वरूप एवानुप्रवेशात् पञ्चैवाऽङ्गानि ।
तत्र षट्संख्या विप्रतिषिध्येत ॥ १२ ॥
परिहरति-
अङ्गानां तु प्रधानैरव्यपदेश इति न्यायवित्समयः ॥ १३॥
अङ्गान्येव कल्पसूत्राणि न वेदस्वरूपाणि । पौरुषेयतया स्मरणात् ।
कतिपयान्येव हि तेषु ब्राह्मणवाक्यानि, भूयिष्ठानि स्ववाक्यानि । अङ्गानां
च तेषां प्रधानवाचिभिशब्दैः छन्दो वेदो ब्राह्मणमित्यादिभिर्व्यपदेशो न
न्याय्य इति न्यायविदां सिद्धान्तः । ताविमौ पूर्वपक्षसिद्धान्तौ (१)कल्प-
सूत्राधिकरणे स्पष्टं द्रष्टव्यौ । यत्तूक्तं न मन्त्रब्राह्मणमात्रेण पूर्ण उपदेश
इति । नैष स्थाणोरपराधो यदेनमन्धो न पश्यतीति, पुरुषापराधस्स
भवति । इदं तु भवानाचष्टाम्-कल्पसूत्रकाराणामियं प्रयोगकल्पना कु-
तस्येति । न्यायोपबृंहिताभ्यां मन्त्रब्राह्मणाभ्यामिति वक्तव्यम् । नाऽन्या
गतिः । एवं सति भवानपि यततां तादृशस्यामिति । ततो मन्त्रब्राह्म-
णाभ्यामेव पूर्णमवभोत्स्यत इति ॥ १३ ॥
अतिथिं निराकृत्य यत्र गते भोजने स्मरेत्ततो
विरम्योपोष्य ॥ १४ ॥
अतिथिमागतं केनचित्प्रकारेण निराकृत्य भोजने प्रवृत्तो यत्र गते य-
दवस्थाप्राप्ते भोजने स्मरेत्-धिक्छ्रया स निराकृत इति, तत्रैव भोजना-
द्विरम्य तस्मिन्नहन्युपोष्य ॥ १४ ॥
इत्यापस्तम्बधर्मसूत्रे उज्ज्वलोपेते द्वितीयप्रश्नेऽष्टमी कण्डिका ॥ ८ ॥
१. पू. मी १. ३. ९. कल्पसूत्राणां बौधायनापस्तम्बादिप्रणीतानां यत्र साक्षाद्वेदत्वनि-
राकरणं क्रियते किन्तु वेदमूलत्वेनैव प्रामाण्यं स्थाप्यते । तत् कल्पसूत्राधिकरणम् ॥