सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 223, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 223

नियमादन्यत्राऽप्रसङ्गात् । इदं तर्हि प्रयोजनम्-यदा पिताऽनुपेतः पुत्रस्तु
प्रायश्चित्तं कृत्वा कृतोपनयनः तदा तं प्रति पितुरनुपेतस्योच्छिष्टं प्रति-
षिध्यते । एवं ज्येष्ठेऽपि द्रष्टव्यम् । एतदपि नास्ति प्रयोजनम् । उक्तं
हि 'धर्मविप्रतिपत्तावभोज्य ( १.४.१२ ) मिति । 'तेषामभ्यागमनं भो-
जनं विवाहमिति च वर्जये' (१.१.३३) दिति च । तथा स्त्रीणामित्येतत्
किमर्थम् ? मातुरुच्छिष्टप्रतिषेधार्थम् । कथं प्रसङ्गः ? 'मातरि पितर्या-
चार्यवच्छुश्रूषे' (१.१४.५.) ति वचनात्, 'यदुच्छिष्टं प्राश्नाति हविरुच्छि
ष्टमेव तत्'(१.४.१,२) दित्याचार्योच्छिष्टस्य हविष्ट्वेन संस्तवाच्च । (१)
एवमपि 'पितुर्ज्येष्ठस्ये'त्यत्र पितु र्ग्रहणादेव सिद्धम् । तस्मात् केषु चिज्-
नपदेषु भार्ययाऽनुपेतेन च सह भोजनमाचरन्ति । तथा च बौधायनः-
(२)'यानि दक्षिणतस्तानि व्याख्यास्यामः । यथैतदनुपेतेन सह
भोजनं स्त्रिया सह भोजन'मिति । तस्य दुराचारत्वमनेन प्रतिपाद्यते ॥
सर्वाण्युदकपूर्वाणि दानानि ॥ ८ ॥
'सर्वाणी'ति वचनात् भिक्षाप्युदकपूर्वमेव देया ॥ ८ ॥
यथाश्रुति विहारे ॥ ९ ॥
विहारे यज्ञकर्मणि यानि दानानि दक्षिणादीनि , तानि यथाश्रुत्येव ।
नोदकपूर्वाणि ॥ ९ ॥
ये नित्या भाक्तिकास्तेषामनुपरोधेन संविभागो विहितः॥
ये नित्या भाक्तिका भक्तार्हाः कर्मकरादयः तेषामुपरोधो यथा न भवति
तथा वैश्वदेवान्ते अभ्यागतेभ्यः संविभागः कर्तव्यः ॥ १० ॥
काममात्मानं भार्यां पुत्रं वोपरुन्ध्यान्न त्वेव
दासकर्मकरम् ॥ ११ ॥
दासो भूत्वा यः कर्म करोति स दासकर्मकरः तं आत्माद्युपरोधे
नापि नोपरुन्ध्यात् । किं पुनरागसार्थं तं नोपरुन्ध्यादिति(३) ॥ ११ ॥
तथा चाऽऽत्मनोऽनुपरोधं कुर्याद्यथा कर्मसु समर्थस्स्यात् ॥
१. नैतदपि सारम् । 'पितुर्ज्येष्ठस्य च' इत्यत्रपितुर्ग्रहणादेव तस्या अप्रसक्तेः, इति. च. पु
२. बौ. ध. १. १. १८, १९.
३. 'अतस्त केवलं कर्मकर नोपरुन्ध्यात् इत्यधिकः पाठः क. पुस्तके ।