सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 220, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 220

अतिथिपूजा ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २०९
कोऽसौ मधुपर्क इत्यत आह—
दधि मधुसंसृष्टं मधुपर्कः पयो वा मधुसंसृष्टम् ॥ ८ ॥
(१)गृह्योक्तस्याऽनुवादोऽयमुत्तरविवक्षया ॥ ८ ॥
अभाव उदकम् ॥ ९ ॥
दधिपयसोरलाभ उदकमपि देयम् । मधुसंसृष्टमित्येके । नेत्य-
न्ये, पूर्वत्र पुनर्मधुसंसृष्टग्रहणादिति ॥ ९ ॥
वेदाध्याय इत्यत्र विवक्षितं वेदमाह—
षडङ्गो वेदः ॥ १० ॥
षड्भिरङ्गैर्युक्तोऽत्र वेदो गृह्यत इति ॥ १० ॥
कानि तान्यङ्गानीत्यत आह—
छन्दःकल्पो व्याकरणं ज्योतिषं निरुक्तं शिक्षा च्छ-
न्दोविचितिरिति ॥ ११ ॥
छन्दो वेदः । तत्कल्पयति प्रतिशाखं शाखान्तराधीतेन न्यायप्रा-
प्तेन चाऽङ्गकलापेनोपेतस्य कर्मणः प्रयोगकल्पनयोपस्करुत इति छन्दः-
कल्पः कल्पसूत्राणि । व्याकरण अर्थविशेषमाश्रित्य पदमन्वाचक्षाणं पद-
पदार्थप्रतिपादनेन वेदस्योपकारकं विद्यास्थानम् । सूर्यादीनि ज्योतीं-
ष्यधिकृत्य प्रवृत्तं शास्त्रं ज्योतिषम् । आदिवृद्ध्यभावे यत्नः कार्यः । तद-
प्यध्ययनोपयोगिनमनुष्ठानोपयोगिनं च कालविशेषं प्रतिपादयदुपका-
रकम्। निरुक्तमपि व्याकरणस्यैव कात्स्न्र्यम् । शिक्षा वर्णानां स्थानप्रयत्ना-
दिकमध्ययनकाले कर्मणि च मन्त्राणामुच्चारणप्रकारं शिक्षयतीति ।
पृषोदरादित्वाद्दीर्घः । गायत्र्यादीनि छन्दांसि यया विचीयन्ते विवि-
च्य ज्ञायन्ते, सा छन्दोविचितिः । एतान्यङ्गानि अङ्गसंस्तवादङ्गत्वम् ।
'मुखं व्याकरणं तस्य ज्योतिषं नेत्रमुच्यते ।
निरुक्तं श्रोत्रमुद्दिष्टं छन्दसां विचितिः पदे ।
शिक्षा घ्राणं तु वेदस्य हस्तौ कल्पान् प्रचक्षते ॥ इति ॥
उपकारकत्वाच्च ॥ ११ ॥
१. "दधि मौध्वीत संसृज्य—त्रिवृतमेके घृतं च । पांक्तमेके धानास्सक्तूंश्च" इति
गृह्ये उक्तम् ।
आप० ध० २७