आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 216, कुल 399 में से
संदर्भ में पढ़ेंअतिथिपूजा ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २०५
प्रिया अप्रियाश्चाऽतिथयः स्वर्गं लोकं गमय-
न्तीति विज्ञायते ॥ ५ ॥
प्रियाः प्रसिद्धाः अप्रिया उदासीनाः, द्विषतो निषिद्धत्वात् ॥ ५ ॥
स यत्प्रातर्मध्यन्दिने सायमिति ददाति सवना-
न्येव तानि भवन्ति ॥ ६ ॥
त्रिषु कालेषु दीयमानान्यन्नानि अस्य यज्ञस्य (१)प्रातस्सवनादीनि
त्रीणि भवन्ति । तस्मात्सर्वेषु कालेषु दातव्यमिति ॥ ६ ॥
यदनुतिष्ठत्युदवस्यत्येव तत् ॥ ७ ॥
यत् गन्तुमुत्तिष्ठन्तमतिथिमनूत्तिष्ठति तदुदवस्यत्येव(२) उदवसानी-
या साऽस्य यज्ञस्येति । प्रायेणोच्छब्दं न पठन्ति । केवलमनुशब्दमेव
पठन्ति । तत्राप्यर्थः स एव ॥ ७ ॥
यत्सान्त्वयति सा दक्षिणा प्रशंसा ॥ ८ ॥
यत् सान्त्वयति प्रशंसति सा प्रशसा दक्षिणा ॥ ८ ॥
यत्संसाधयति ते (३)विष्णुकमाः ॥ ९ ॥
संसाधनमनुव्रजनम् ॥ ९ ॥
यदुपावर्तते (४)सोऽवभृथः ॥ १० ॥
उपावर्तनं अनुव्रज्य प्रत्यावर्तनम् ॥ १० ॥
इति ब्राह्मणम् ॥ ११ ॥
इति ब्राह्मणमित्यस्य सर्वेण सम्बन्धः ॥ ११ ॥
राजानं चेदतिथिरभ्यागच्छेच्छ्रेयसी मस्मै पूजामा-
त्मनः कारयेत् ॥ १२ ॥
१. सवनपदार्थः १. २५ १४ (पृ. १४७) सूत्रे टिप्पण्या विवृत ।
२. उदवसानीया नाम यज्ञसमाप्तौ क्रियमाणेष्टिः । उदवसाय क्रियते इत्युदवसानीया ।
३ दर्शपूर्णमासयोर्यजमानकर्तव्यतया विहिताः (आप.श्रौ. ४.१४.६.) पदप्रक्षेपाः ।
४. 'वारुणेनैककपालेनावभृथमवयन्ति' इति विहितस्सोमयागस्यान्ते क्रियमाणस्त-
दङ्गभूत इष्टिविशेषोऽवभृथः ।