सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 215, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 215

२०४ आपस्तम्बधर्मसूत्रे [ (प्र.३.) क.७.
स एष प्रजापत्यः कुटुम्बिनो यज्ञो नित्यप्रततः ॥ १ ॥
स एषोऽभिहितो मनुष्ययज्ञः प्राजापत्यः प्रजापतिना दृष्टः, तद्दैवत्यो
वा । कुटुम्बिनो नित्यप्रततो, यज्ञः नाऽग्निष्टोमादिवत् कादाचित्कः ॥ १ ॥
तस्याऽग्नीन् सम्पादयति—
योऽतिथीनामग्निः स आहवनीयो यः कुटुम्बे स गार्ह-
पत्यो यस्मिन्पच्यते सोऽन्वाहार्यपचनः ॥ २ ॥
योऽतिथीनां जाठरोऽग्निः स आवाहनीय., तत्र हि हूयते । यः कुटु-
म्बे गृहे अग्निरौपासनः स गार्हपत्यः, नित्यधार्यत्वात् । यस्मिन् पच्यते(१)
लौकिकाग्नौ सोऽन्वाहार्यपचन. दक्षिणाग्निः, तत्र (२)ह्यन्वाहार्यं पच्यते ॥२॥
ऊर्जं पुष्टिं प्रजां पशूनिष्टापूर्तमिति गृहाणामश्नाति यः
पूर्वोऽतिथेरश्नाति ॥ ३ ॥
योऽतिथेः पूर्वमश्नाति स गृहाणा कुलस्य सम्बन्धि ऊर्जादिकमश्नाति भक्षयति
विनाशयति । ऊर्ग्न्नम् । इष्टमग्निहोत्रादि । पूर्तं स्मार्तं कर्म(३) कूपखा-
तादि । अन्ये प्रसिद्धाः ॥ ३ ॥
पय उपसेचनमन्नमग्निष्टोमसम्मितं सर्पिषोक्थ्यसम्मितं,
मधुनाऽतिरात्रसम्मितं, मांसेन द्वादशाहसम्मित, मुदकेन
प्रजावृद्धिरायुषश्च ॥ ४ ॥
पय उपसेचन यस्य तदन्नम(४)ग्निष्टोमतुल्यम् । सर्पिषा, उपसिक्तमिति
प्रकरणाद्गम्यते तदुक्थ्यतुल्यम् । मधुनाेपसिक्तमन्नमतिरात्रतुल्यम् ।
मांसेन सह दत्तमन्नं द्वादशाहतुल्यम् । उदकेन सह दत्तेन प्रजावृद्धिर्भवति ।
आयुषश्च । उपसमस्तमपि वृद्धिरिति सम्बध्यते ॥ ४ ॥

१. आष्ट्राग्नौ इति क. च. पु.
२. दर्शपूर्णमासेष्ट्याृत्विजो दक्षिणार्थेन यद्देयमन्न तदन्वाहार्यपचनम् ।
३ तडागादि इति ड. पु. तडागखननादि इति घ. पु.
अग्निहोत्रं तपस्सत्यं वेदाना चानुपालनम् ।
आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते ॥
वापीकूपतडागादि देवतायतनानि च ।
अन्नप्रदानमारामः पूर्तमित्यभिधीयते ॥
४, अग्निष्टोमोक्थ्यातिरात्राः ज्योतिष्टोमस्य संस्थाविशेषाः ।