अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)
Aparokshanubhuti with Dipika & Hindi Commentary
आदि शङ्कराचार्य द्वारा
स्रोत: खेमराज श्रीकृष्णदास / गीताप्रेस · खेमराज श्रीकृष्णदास / गीताप्रेस · 1940 (उद्गम)
पृष्ठ 32, कुल 109 में से
संदर्भ में पढ़ें( २६ ) अपरोक्षानुभूतिः ।
इत्येवंप्रकारम् "अहं ब्रह्मास्मि"इत्यादिमहावाक्यजन्या-
ऽखंडाकारबुद्धिरूपं ज्ञानं बुधैरात्मतत्त्वज्ञैरुच्यते कथ्यत
इत्यर्थः। एतद्विलक्षणः सर्वोऽज्ञानाभास इतिभावः॥२४॥
भा. टी. मैं सम अर्थात् सर्वमय प्रकाशद्वाराहूँ । और
शान्तहूँ अर्थात् निर्विकारहूँ त्रिकाल में विद्यमान चैतन्य-
स्वरूप आनन्दमयस्वरूप ब्रह्म हूँ । नाशवान् देह मैं नहीं हूं इस
प्रकार ज्ञानको पण्डित जन तत्वज्ञान कहैं हैं ॥ २४ ॥
निर्विकारो निराकारो निरवद्योऽहम-
व्ययः ॥ नाहं देहो ह्यसद्रूपो ज्ञानमि-
त्युच्यते बुधैः ॥ २५ ॥
सं. टी. नन्वहं जातो मृतःसुखीदुःखीत्याद्यनेकविक।
रत्त्वेनाहंशब्दप्रत्ययालंबनस्य प्रतीयमानत्वात् कथं
तस्य ब्रह्मत्वमित्यत आह निर्विकार इति अहमहंशब्दप्र-
त्ययालंबनः प्रत्यगात्मा निर्विकारोऽस्मीति शेषः निर्गतो
विकारजन्मदायो यस्मात् स तथाविधः तेषां देहधर्म-
त्वादिति भावः । तत्र हेतुः निराकारः देहाद्याकाररहितः
अत एव निरवद्यो वातपित्तादिजन्याध्यात्मिकादि-
तापत्रयरहितइत्यर्थः। अत एवाऽव्ययः अपक्षयादिरहित
इत्यर्थः अहं मनुष्य इत्यादिप्रतीतेः । कथं निर्विकारत्व-
मिति चेत्सा प्रतीतिः शुक्तिरजतादिवद्बाध्यत्वाद्भ्रांतिरि-
त्याह नाहमिति । नाहमित्युत्तरार्द्धं व्याख्यातं पूर्वश्लोके