अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)
Aparokshanubhuti with Dipika & Hindi Commentary
आदि शङ्कराचार्य द्वारा
स्रोत: खेमराज श्रीकृष्णदास / गीताप्रेस · खेमराज श्रीकृष्णदास / गीताप्रेस · 1940 (उद्गम)
पृष्ठ 31, कुल 109 में से
संदर्भ में पढ़ेंसंस्कृतटीका-भाषाटीकासहिता । (२५)
ब्रह्मैवाहं समः शान्तः सच्चिदानन्दल-
क्षणः ॥ नाहं देहो ह्यसद्रूपो ज्ञानमि-
त्युच्यते बुधैः ॥ २४ ॥
सं. टी. नन्वतस्मिंस्तद्वुद्धिरिति लक्षणभ्रमापरप-
र्यायमोहकार्य्यलिंगानुमेयमज्ञानमीदृक् तर्हि तन्निवर्त्तकं
किमित्याकांक्षायां तद्विरोधित्वादात्मज्ञानमेवात्मा-
ऽज्ञाननिवर्त्तकमित्यभिप्रेत्य तल्लक्षणमाह ब्रह्मेत्यादिपं-
चभिः । अहमहंशब्दप्रत्ययालंबनः प्रत्यगात्मा ब्रह्मै-
वास्मि एतयोस्तत्त्वंपदार्थयोरैक्ये हेतुगर्भितानि विशे-
षणान्याह सम इति समः सत्ताप्रकाशाभ्यां सर्वा-
भिन्नः पुनः किंलक्षणः शांतः निरस्तसमस्तोपा-
धित्वाद्विक्षेपादिविकारशून्यः पुनः किंलक्षणः सच्चिदा-
नंदलक्षणः । सच्चिदानंदैरनृतजडदुःखप्रतियोगिभिर्ल-
क्ष्यते विरुद्धांशत्यागरूपया भागलक्षणया ज्ञायत इति
सच्चिदानंदलक्षणः । ब्रह्मबोधे हि द्विविधं द्वारं विधिर्निषे-
धश्चेति तत्र सत्यज्ञानादिसाक्षाद्वाचकशब्दप्रयोगलक्ष-
णो विधिरुक्तः । इदानीमतन्निरसनलक्षणो निषेधः प्रद-
र्श्यते नाहमिति अहमहंशब्दप्रत्ययालंबन आत्मा देहो
नेत्यन्वयः देह इत्युपलक्षणं प्राणेंद्रियादीनामपि हीति
विद्वज्जनप्रसिद्धं देहादेरनात्मत्वेहेतुमाह असदिति । अस-
द्रूपोसद्वाध्यमनृतं तादृग्रूपं स्वरूपं यस्य स तथाविध
२